Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 421
________________ । ४१३।। पूरणार्थ: । विपर्यये बाधकमाह - इतरथा त्वतुल्यतायां पुनर्निष्फलत्वमकिंचित्करत्वं प्राप्नोति नियमेनावश्यंभावेनैकस्यानयोर्मध्ये । यदि ह्येकस्यैव कार्यमायत्तं स्यात् तदा द्वितीयस्याकिश्चित्करत्वेन वन्ध्यासुतादिवद् निष्फलभावेनावस्तुत्वमेव प्रसज्यत इति ॥ ३४१ ।। अथानयोरेव स्वरूपं व्याचष्टे ; दारुयमाणमिणं पडिमा सु जाग्गयासमाणसं । पञ्चक्खादिपसिद्धं विहावियः बुवहजणेण ||३४२ || दारुकादीनां काष्ठोपलाम्रादीनामिदं देवं प्रतिमादिषु प्रतिमादेवकुलपाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं योग्यभावतुल्यमिति । कीदृशं सदित्याह - प्रत्यक्षादिप्रसिद्धं प्रत्यक्षानुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं बुधजनेन विपश्चिता लोकेन । तथा हि-यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यतां निश्चिन्वन्ति, कृषीवलादयस्तु मुद्गादिषु सामान्येन विवक्षितकार्यं प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा अंकुरोद्गमादिभिस्तैस्तैरुपायैः कार्ययोग्यतां समवधारयन्ति एयं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । शेषास्तु तैस्तैः शकुनाद्य पायैरिति इत्युक्तं दैवलक्षणम् ।। ३४२ ।। अथ योग्यतयैव भावानां स्वफलोदया भविष्यति किमन्तर्गडुकल्पेन पुरुषकारेण कल्पितेनेत्याशंक्य पुरुषकारं समर्थयंस्तल्लक्षणमाह; - न हि जागे नियमेण जायइ पडिमादि ण य अजोगत्तं । तल्लक्खणविहराओ पडिमातुल्लो पुरीसगारो ।। ३४३ ।। ।।४१३ ।।

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438