SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ नच नवैवं योग्यस्याप्ययोग्यतया लोकनीतिः शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो योग्यमिदमिति PAK शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाबलादिजनाविप्रतिपत्त्या स्थितोऽत्र दारुणि ।।३४५।। एवं योग्यं दाव प्रतिमामाक्षिपतीति निरस्तं प्रस्तुते योजयन्नाह;||४१५॥ एवं जइ कम्मं चिय चित्तं अक्खिवइ पुरिसगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण ॥३४६।। एवं परोपन्यस्ताऽप्रतिमामिव यदि चेत् कर्मैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति गलगृहीततथाविधकिंकरवत् पुरुषकारमुक्तरूपं पुनः। तदा नो दानादिषु परलोकफलेषु क्रियाविषेशेषु शुभाशुभ रूपेषु पुण्यादिभेदः पुण्यपापनानात्वं स्यात् । मो पुर्ववत् । अध्यात्मभेदतोऽध्यवसायभेदात् । यदि हि देवायत्त एव पुरुषO कारः क्रियासु शुभाशुभरूपासु व्याप्रियते प्रकृतिरेव करोतीति सांख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु शुभाशुभरूपकर्ममात्रहेतुकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षापकर्षकृतो भेदः सर्वास्तिकसम्मतः स कथं संगच्छते इति । तथाच पठ्यते -"अभिसन्धिः फल भिन्नमनुष्ठाने समेपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥१॥" इति ॥३४६।। ___पुनरपि परमतमाशंक्य परिहर ति;तारिसयं चिय अह तं सुहाणुबंधि अज्झप्पकारित्ति । पुरिसस्स एरिसत्ते तदुवक्कमणम्मि को दोसा ।।३४७।। ॥४१५॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy