Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
वक्तुमुपक्रान्ते परिशुद्धाज्ञातः सर्वोपाधिशुद्धसम्यग्दर्शनादिमोक्षमार्गाराधनात् कम्मेपक्रमणं ज्ञानावरणादिदुष्टादृष्टनष्टभावापादनं युज्यते, जलानलयोरिवानयोरनिशं विरोधात । तदभावे च कर्मोपक्रमसद्भावे पुनर्भावारोग्यं सर्वव्याध्यधि
कसंसाररोगक्षयात् तथा क्षपकघेण्यादिलाभप्रकारेणाभिमतं सर्वास्तिकप्रवादिसम्मतं सम्पद्यत इति ॥३२७।। ||४०३॥
अथाज्ञायोगमेव तथा तथा स्तुवन्नाह;एयमिह हाइ विरियं एसो खलु एत्थ पुरिसगारो त्ति । एवं तं दुण्णेयं एसो चिय णाणविसओवि ॥३२८।। ____एतदिह कर्मोपक्रमे भवति वीर्यमात्मसामर्थ्यम् । यः प्रागुक्तः परिशुद्धाज्ञायोगस्तथैष खलु एष एव परिशुद्धाज्ञायोगोऽत्र प्रस्तुते कर्मोपक्रमे पुरुषकारो, न पुनरन्यो धावनवल्गनादिरूपः । इति पूरणार्थः । एतत् तद् दुविज्ञेयं यद् मोह
बहुले जोवलेोके प्रायेणेत्यर्थः प्रचारिण्ययमेव शुद्धाज्ञायोगो विवेकिना जनेनानुष्ठीयते, न पुनर्गतानुगतिकलक्षणा लोकर हेरिः । तथैष इव विभागोपलक्षणारूपो ज्ञानविषयोऽपि गहनपदार्थविवेचकतया ज्ञानस्य निश्चयतः स्वरूपलाभात् ।
पठ्यते च 'बुद्धेः फलं तत्त्वविचारणं स्याद्' इति । इदमुक्तं भवति यः खलु भिन्नग्रन्थेर्जीवस्य परिशुद्धाज्ञालाभः प्रादुर्भवति, X४०३।। INस औदयिकभावनिरोधादात्मवीर्यमुच्यते । एष एव च पुरुषकारः, सर्वकर्मविकारविलक्षणेन मोोण कथञ्चिद् एकात्म
भावादस्य अत एवैष एव च कर्मोपक्रमहेतुरिति निश्चीयते, अनेनैवोपक्रान्तानां कर्मणां पुनरुद्भवाभावात् । दुविज्ञेयश्चायं मूढमतीनाम् । अत एव च प्रौढज्ञानविषयतया व्यवस्थित इति ॥३२८॥
साम्प्रतमुक्तमर्थं प्रसाधयन् दृष्टान्तमाह.

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438