Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 410
________________ श्रोउपदे शपदे ||४०२॥ व्यवहारतो व्यवहारनयादेशाद् बहुसदृशतायां भावानामेकत्वप्रतिपत्तिरूपात, निमित्तं भोजनादिव्याधेस्तुल्यं समानं, सदृष्टान्तेन न तु निश्चयतः, तस्य तुल्यकार्यानुमेयत्वेनातुल्यफलोदये कथञ्चिदभावात् । तथा चैतन्मतं-"नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥१॥" तत्र सोपक्रमनिरुपक्रमकर्मसाहाय्यकृतो व्याधिनिदानानामन्तरंगो भेदो विद्यते, यतोऽयं व्याधिः सफलनिष्फलभाव इति । न च वक्तव्यं व्यवहारस्यासांवृतरूपतया असंवृतत्वात् कथं तन्मताश्रयेण प्रकृतव्याधौ निमित्ततुल्यतो ष्यत इति । यत एषोऽपि व्यव- 10 हारो न केवलं निश्चयोऽत्र जगति तत्त्वाङ्गं तात्त्विकपक्षलाभकरणं वर्तते । कुतः । यतः इतो व्यवहारनयादनन्तरमेवोक्तरूपाद् या प्रवृत्ति: कार्याथिनां छद्मस्थाना चेष्टा, खलुरवधारणे, ततस्तस्या एव न तु निश्चयपूविकायां अपि, तस्या | विशिष्टज्ञानातिशययुक्तसुरुषविशेषविषयत्वात् । किमित्याह-निश्चयनयभावयोगाद् निश्वयनयेन निश्चयनयप्रवृत्त्या यो भावः साध्यरूपतामापन्नः पदार्थः तेन योगाद् घटनात् । तथाहि-कृषीवलादयो बीजशुद्धयादिपूर्वकमसति प्रतिबन्धे नियमादितोऽभिलषितफललाभः सम्पत्स्यत इति व्यवहारतो निश्चितोपायाः प्रवृर्तमाना: प्रायेण विवक्षितफललाभभाजो भवन्तो दृश्यन्त इति ॥३२६।। अथैनमेवार्थं प्रकृते प्रोजयति;एवमिहाहिगयम्मिवि परिसुद्धाणाउ कम्मुवक्कमणं । जुज्जइ तब्भावम्मि य भावारोग्ग तहाभिमयं ।।३२७।। __ एवं यथाऽजीर्णदोषस्य इह जने निदानपरिहारादुपक्रमोऽध्यक्षसिद्धः समुपलभ्यते, तथाऽधिकृतेऽप्याज्ञामाहात्म्यख्यापने २

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438