SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रोउपदे शपदे ||४०२॥ व्यवहारतो व्यवहारनयादेशाद् बहुसदृशतायां भावानामेकत्वप्रतिपत्तिरूपात, निमित्तं भोजनादिव्याधेस्तुल्यं समानं, सदृष्टान्तेन न तु निश्चयतः, तस्य तुल्यकार्यानुमेयत्वेनातुल्यफलोदये कथञ्चिदभावात् । तथा चैतन्मतं-"नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥१॥" तत्र सोपक्रमनिरुपक्रमकर्मसाहाय्यकृतो व्याधिनिदानानामन्तरंगो भेदो विद्यते, यतोऽयं व्याधिः सफलनिष्फलभाव इति । न च वक्तव्यं व्यवहारस्यासांवृतरूपतया असंवृतत्वात् कथं तन्मताश्रयेण प्रकृतव्याधौ निमित्ततुल्यतो ष्यत इति । यत एषोऽपि व्यव- 10 हारो न केवलं निश्चयोऽत्र जगति तत्त्वाङ्गं तात्त्विकपक्षलाभकरणं वर्तते । कुतः । यतः इतो व्यवहारनयादनन्तरमेवोक्तरूपाद् या प्रवृत्ति: कार्याथिनां छद्मस्थाना चेष्टा, खलुरवधारणे, ततस्तस्या एव न तु निश्चयपूविकायां अपि, तस्या | विशिष्टज्ञानातिशययुक्तसुरुषविशेषविषयत्वात् । किमित्याह-निश्चयनयभावयोगाद् निश्वयनयेन निश्चयनयप्रवृत्त्या यो भावः साध्यरूपतामापन्नः पदार्थः तेन योगाद् घटनात् । तथाहि-कृषीवलादयो बीजशुद्धयादिपूर्वकमसति प्रतिबन्धे नियमादितोऽभिलषितफललाभः सम्पत्स्यत इति व्यवहारतो निश्चितोपायाः प्रवृर्तमाना: प्रायेण विवक्षितफललाभभाजो भवन्तो दृश्यन्त इति ॥३२६।। अथैनमेवार्थं प्रकृते प्रोजयति;एवमिहाहिगयम्मिवि परिसुद्धाणाउ कम्मुवक्कमणं । जुज्जइ तब्भावम्मि य भावारोग्ग तहाभिमयं ।।३२७।। __ एवं यथाऽजीर्णदोषस्य इह जने निदानपरिहारादुपक्रमोऽध्यक्षसिद्धः समुपलभ्यते, तथाऽधिकृतेऽप्याज्ञामाहात्म्यख्यापने २
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy