SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ॥४० ॥ ह-परिहारेतरभावात् । परिहारभावात् पिशितघृतादीनामुत्पत्सुरोगनिदानभावापन्नानामनासेवनात् । रोगनिदानपरिहारश्चवं पठ्यते, यथा-"वर्जयेद् द्विदलं शूली कुष्ठी मांसं ज्वरी घृतम् । नवमन्नमतीसारी नेत्ररोगी च मैथुनम ।।।।" इतदभावादन्येषां केषांचिदनागतमयतमानानां तन्निमित्तापरिहारात । उभयेषामपि कीदृशानां तुल्यनिमित्तानामपि प्राक समानरोगोत्पादककारणानां विशेष उद्भवानुभवरूपः प्रत्यक्षसिद्धो वर्तत इति ।।३२४।। एनमेवार्थं विशेषेण भावयति ;एगम्मि भोयणे भुजिऊण जाए मणागमज्जिण्णे । सइ परिहारारोग्गं अउण्णहा वाहिभावो उ ।।३२५।। एकस्मिन्नभिन्नजातीये भोजने सूपोदनादौ 'भुंजिऊण'त्ति भुक्त्वा भुक्ते सतीत्यर्थ । जाते समुत्पन्ने मनाग ईषदजीर्णे भक्तानाजरणलक्षणे सति; आमादयश्चाजीर्णभेदाः, यथोक्त-"अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् । आम विदग्धं विष्टब्धं रसशेषं तथैव च ॥१॥" तथा परिहारादुपस्थितरोगनिदानपरित्यागाद् आरोग्यं नीरोगता एकस्य जायते । द्वितीयस्य त्वन्यस्यातोऽज्ञानादिदोषादन्यथा निदानापरिहाराद् व्याधिभावस्तूपस्थितव्याधिसमुद्भव एव सम्पद्यते। यो हि यन्निमित्तो दोषः स तत्प्रतिपक्षसेवात एव निवर्त्तते, यथा शीतासेवनादुत्पन्नं जाड्यमुष्णसेवात इति ॥३२५॥ ___ ननु कारणभेदपूर्वकः कार्यभेद इति सर्वलोकसिद्धो व्यवहारः । तत् कथं भोजनादिनिमित्ततुल्यतायामपि द्वयोरयं निष्फलसफलभावरूपो व्याविशेषः सम्पन्न इत्याशंक्याह; ववहारओ णिमित्तं तुल्लं एसोवि एत्थ तत्तंगं । एत्तो पवित्तिओ खलु णिच्छयनयभावजोगाओ ॥३२६।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy