________________
॥४०
॥
ह-परिहारेतरभावात् । परिहारभावात् पिशितघृतादीनामुत्पत्सुरोगनिदानभावापन्नानामनासेवनात् । रोगनिदानपरिहारश्चवं पठ्यते, यथा-"वर्जयेद् द्विदलं शूली कुष्ठी मांसं ज्वरी घृतम् । नवमन्नमतीसारी नेत्ररोगी च मैथुनम ।।।।" इतदभावादन्येषां केषांचिदनागतमयतमानानां तन्निमित्तापरिहारात । उभयेषामपि कीदृशानां तुल्यनिमित्तानामपि प्राक समानरोगोत्पादककारणानां विशेष उद्भवानुभवरूपः प्रत्यक्षसिद्धो वर्तत इति ।।३२४।।
एनमेवार्थं विशेषेण भावयति ;एगम्मि भोयणे भुजिऊण जाए मणागमज्जिण्णे । सइ परिहारारोग्गं अउण्णहा वाहिभावो उ ।।३२५।।
एकस्मिन्नभिन्नजातीये भोजने सूपोदनादौ 'भुंजिऊण'त्ति भुक्त्वा भुक्ते सतीत्यर्थ । जाते समुत्पन्ने मनाग ईषदजीर्णे भक्तानाजरणलक्षणे सति; आमादयश्चाजीर्णभेदाः, यथोक्त-"अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् । आम विदग्धं विष्टब्धं रसशेषं तथैव च ॥१॥" तथा परिहारादुपस्थितरोगनिदानपरित्यागाद् आरोग्यं नीरोगता एकस्य जायते । द्वितीयस्य त्वन्यस्यातोऽज्ञानादिदोषादन्यथा निदानापरिहाराद् व्याधिभावस्तूपस्थितव्याधिसमुद्भव एव सम्पद्यते। यो हि यन्निमित्तो दोषः स तत्प्रतिपक्षसेवात एव निवर्त्तते, यथा शीतासेवनादुत्पन्नं जाड्यमुष्णसेवात इति ॥३२५॥ ___ ननु कारणभेदपूर्वकः कार्यभेद इति सर्वलोकसिद्धो व्यवहारः । तत् कथं भोजनादिनिमित्ततुल्यतायामपि द्वयोरयं निष्फलसफलभावरूपो व्याविशेषः सम्पन्न इत्याशंक्याह;
ववहारओ णिमित्तं तुल्लं एसोवि एत्थ तत्तंगं । एत्तो पवित्तिओ खलु णिच्छयनयभावजोगाओ ॥३२६।।