SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे धर्मबीज शुद्धिभावना ॥४००॥ वधिकं यत्नमवलम्बन्ते, तथा प्रस्तुतधर्मबीजशुद्धौ भवभीरूभिर्भव्यरादरपरैर्भाव्यमिति भावः ॥३२२।। अथ धर्मबीजशुद्धेः साक्षादेव फलमभिधित्सुराह;परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइरोइपि हु कम्म ण फलइ तहभावओ चेव ॥३२२।। परिशद्धाज्ञायोगात् सर्वातिचारपरिहारेण धर्माराधनात् प्रायेणात्यन्तनिकाचनावस्थाप्राप्तं कर्म परिहत्येत्यर्थः, आत्मचित्तयुक्तानां आत्मन्येव परवृत्तान्तेष्वन्धबधिरमूकभावापन्नतया यद् मनश्चित्तं तेन युक्तानां बहिर्व्याक्षेपपरिहारेण सदा आत्मन्येव निक्षिप्तशुद्धचित्तानामित्यर्थः, अतिरौद्रमपि नरकादिविडम्बनादायकत्वेन दारुणमपि कर्म ज्ञानावरणादि न नैव फलति स्वविपाकेन पच्यते । कुत इत्याह-तथा भावतश्चैव तत्प्रकारस्वाभाव्यादेव । यथा ह्याम्रतरवः समुद्गतनिरन्तरकुसुमभरभ्राजिष्णुशाखासंदोहा अपि बहलविद्य दुद्द्योतपरामृष्टपुष्पाः निष्फलीभावं दर्शयन्ति, तथास्वाभाव्यनियमात, तथा परिशुद्धाज्ञाभ्यासात् सुप्रणिहितमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां जन्तूनां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुभकर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥३२३॥ एतदेव प्रतिवस्तूपमया भावयति ;वाहिम्मि दीसइ इमं लिंगेहि अणागयं जयंताणं । परिहारेतरभावा तुल्लनिमित्ताणवि विसेसा ॥३२४॥ व्याधौ कुष्ठज्वरादौ समुद्भवितुकामे दृश्यतेऽध्यक्षत एवावलोक्यत इदमफलत्वम् । कुतः । यतः, लिङ्ग रोगोत्पत्तिगमकैः शरीरास्वास्थ्यादिभिरुपस्थितैतैिश्च सद्भिरनागतं रोगोत्पत्तेः प्रागेव यतमानानामतियत्नं कुर्वताम । कुत इत्या Hin४००।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy