________________
॥३९९||
श
ततस्तस्य वैताढयनयनमकारी कूटे सिद्धनाम्नि कुण्डलजुगले दर्शिते भावत: सम्बोधिः संवृत्तः। ततः क्रमेण प्रव्रज्या। तत्रापि गुरुभक्त्यभिग्रहाराधनात् सुरेषूदपद्यतेति ॥३२०।।३७।।
उपसंहरन्नाह;मोहक्खलणसमाणो एसो एयस्स एत्थ पडिबंधो। णेओ तओ उ गमणं सम्म चिय मुत्तिमग्गेण ॥३२१॥
मोहस्खलनासमानो दिगमोहादिमोहविध्नसमः, एष प्रथमतोऽत्यन्तधर्मारुचिरूपः । एतस्याहद्दत्तस्यात्र मोक्षमार्गे प्रतिबन्धो निरूपतिरूपो ज्ञेयः । ततस्तु तदुत्तरकालमेव गमनं सम्यगेव सर्वातिचारपरिहारं मुक्तिमार्गेण सम्यगदर्शनादिना ||३२१।।
इत्थं भिन्नग्रन्थेरप्यवश्यवेद्यचित्रकर्मवशात् त्रिविधः प्रतिबन्धो भवतीति दृष्टान्तः प्रतिपाद्य साम्प्रतमुक्तमर्थमुपसंहरन् यथासौ न सम्पद्यते तथोपदिशन्नाह ;__ एवं णाऊण इमं परिसुद्धं धम्मीबीयमहिगिच्च । बुद्धिमया कायव्वो जत्तो सति अप्पमत्तण ॥३२२॥ KI एवं मेघकुमारादिज्ञातानुसारेण ज्ञात्वेमं धर्मप्रतिबन्धं दारुणपरिणामं परिशुद्ध सर्वातिचारपरिहारेण धर्म एवम
श्रुतचारित्राराधनरूपो बीजमनेककल्याणकलापकल्पपादपस्य प्ररोहहेतुर्धर्मबीजं तदधिकृत्यापेक्ष्य विधेयतया बुद्धिमता निरूपितबुद्धिरूपधनेन पुंसा कर्तव्यो यत्न आदरः, सदा सर्वावस्थास्वपि, अप्रमत्तेनाज्ञानसंशयमिथ्याज्ञानादिप्रमादाष्टकपरिहारवता । न ह्यशुद्धबीजवप्तारः कृषीवलाः कृतयत्ना अपि कृषावविकलं फलं कदाचिदुपलभन्त इति । यथा ते तच्छुद्धा
11३९ 10.11