SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ वक्तुमुपक्रान्ते परिशुद्धाज्ञातः सर्वोपाधिशुद्धसम्यग्दर्शनादिमोक्षमार्गाराधनात् कम्मेपक्रमणं ज्ञानावरणादिदुष्टादृष्टनष्टभावापादनं युज्यते, जलानलयोरिवानयोरनिशं विरोधात । तदभावे च कर्मोपक्रमसद्भावे पुनर्भावारोग्यं सर्वव्याध्यधि कसंसाररोगक्षयात् तथा क्षपकघेण्यादिलाभप्रकारेणाभिमतं सर्वास्तिकप्रवादिसम्मतं सम्पद्यत इति ॥३२७।। ||४०३॥ अथाज्ञायोगमेव तथा तथा स्तुवन्नाह;एयमिह हाइ विरियं एसो खलु एत्थ पुरिसगारो त्ति । एवं तं दुण्णेयं एसो चिय णाणविसओवि ॥३२८।। ____एतदिह कर्मोपक्रमे भवति वीर्यमात्मसामर्थ्यम् । यः प्रागुक्तः परिशुद्धाज्ञायोगस्तथैष खलु एष एव परिशुद्धाज्ञायोगोऽत्र प्रस्तुते कर्मोपक्रमे पुरुषकारो, न पुनरन्यो धावनवल्गनादिरूपः । इति पूरणार्थः । एतत् तद् दुविज्ञेयं यद् मोह बहुले जोवलेोके प्रायेणेत्यर्थः प्रचारिण्ययमेव शुद्धाज्ञायोगो विवेकिना जनेनानुष्ठीयते, न पुनर्गतानुगतिकलक्षणा लोकर हेरिः । तथैष इव विभागोपलक्षणारूपो ज्ञानविषयोऽपि गहनपदार्थविवेचकतया ज्ञानस्य निश्चयतः स्वरूपलाभात् । पठ्यते च 'बुद्धेः फलं तत्त्वविचारणं स्याद्' इति । इदमुक्तं भवति यः खलु भिन्नग्रन्थेर्जीवस्य परिशुद्धाज्ञालाभः प्रादुर्भवति, X४०३।। INस औदयिकभावनिरोधादात्मवीर्यमुच्यते । एष एव च पुरुषकारः, सर्वकर्मविकारविलक्षणेन मोोण कथञ्चिद् एकात्म भावादस्य अत एवैष एव च कर्मोपक्रमहेतुरिति निश्चीयते, अनेनैवोपक्रान्तानां कर्मणां पुनरुद्भवाभावात् । दुविज्ञेयश्चायं मूढमतीनाम् । अत एव च प्रौढज्ञानविषयतया व्यवस्थित इति ॥३२८॥ साम्प्रतमुक्तमर्थं प्रसाधयन् दृष्टान्तमाह.
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy