Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥३९९||
श
ततस्तस्य वैताढयनयनमकारी कूटे सिद्धनाम्नि कुण्डलजुगले दर्शिते भावत: सम्बोधिः संवृत्तः। ततः क्रमेण प्रव्रज्या। तत्रापि गुरुभक्त्यभिग्रहाराधनात् सुरेषूदपद्यतेति ॥३२०।।३७।।
उपसंहरन्नाह;मोहक्खलणसमाणो एसो एयस्स एत्थ पडिबंधो। णेओ तओ उ गमणं सम्म चिय मुत्तिमग्गेण ॥३२१॥
मोहस्खलनासमानो दिगमोहादिमोहविध्नसमः, एष प्रथमतोऽत्यन्तधर्मारुचिरूपः । एतस्याहद्दत्तस्यात्र मोक्षमार्गे प्रतिबन्धो निरूपतिरूपो ज्ञेयः । ततस्तु तदुत्तरकालमेव गमनं सम्यगेव सर्वातिचारपरिहारं मुक्तिमार्गेण सम्यगदर्शनादिना ||३२१।।
इत्थं भिन्नग्रन्थेरप्यवश्यवेद्यचित्रकर्मवशात् त्रिविधः प्रतिबन्धो भवतीति दृष्टान्तः प्रतिपाद्य साम्प्रतमुक्तमर्थमुपसंहरन् यथासौ न सम्पद्यते तथोपदिशन्नाह ;__ एवं णाऊण इमं परिसुद्धं धम्मीबीयमहिगिच्च । बुद्धिमया कायव्वो जत्तो सति अप्पमत्तण ॥३२२॥ KI एवं मेघकुमारादिज्ञातानुसारेण ज्ञात्वेमं धर्मप्रतिबन्धं दारुणपरिणामं परिशुद्ध सर्वातिचारपरिहारेण धर्म एवम
श्रुतचारित्राराधनरूपो बीजमनेककल्याणकलापकल्पपादपस्य प्ररोहहेतुर्धर्मबीजं तदधिकृत्यापेक्ष्य विधेयतया बुद्धिमता निरूपितबुद्धिरूपधनेन पुंसा कर्तव्यो यत्न आदरः, सदा सर्वावस्थास्वपि, अप्रमत्तेनाज्ञानसंशयमिथ्याज्ञानादिप्रमादाष्टकपरिहारवता । न ह्यशुद्धबीजवप्तारः कृषीवलाः कृतयत्ना अपि कृषावविकलं फलं कदाचिदुपलभन्त इति । यथा ते तच्छुद्धा
11३९ 10.11

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438