Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 399
________________ 'द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुज्जयिनी समजायत ॥२८४॥॥१॥ अन्यदा च प्रत्यन्तविग्रहजये 11३९शा निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे । आगच्छतः स्वदेशाभिमुख 'नवरि'त्ति नवरं केवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्ती सत्यां निष्क्रमणं व्रतमभूत् ॥२८५।।२॥ अभ्यदा च 'तगराविहार'त्ति तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः सम्प्रवृत्तः। प्रस्तावे चोञ्जयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता विहारपृच्छा उचितकाले समुचितसमये सन्ध्यादौ कृता सूरिभिः ॥२८६॥३॥ भणितं च तै: राजपुरोहितपुत्रावभद्रको, तत्कृतस्तु तत्कृत एवोपसर्गः साधूनाम् । शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो निरुपसगर्गो बाधाविरहितस्तत्रोच्जयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति | ॥२८७॥४॥ ततोऽपराजितस्य चिन्ता संजाता। प्रमत्तता कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात्, तद् | निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अक्ति मे शक्तिः सामर्थ्य प्रस्तुतनि- ४।३९शा ग्रहे ॥२८८॥५॥ _ 'गुरुपुच्छ'त्ति गुरुमापृच्छयेत्यर्थः । गमनमुज्जयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च 1 वन्दनादिका उचिता स्थितिः । सति काले भिक्षाभ्रमणरूपे उद्ग्राहणं पात्रप्रगुणिकरणरूपं यदा तेनविहितं तदा सा

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438