Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 400
________________ श्रीउपदेशपदे संग्रह ।।३९२॥ धुभिः 'अच्छणं खु'त्ति आसनमेव आद्ध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोक्तमहमात्मलब्धिको न परलब्धिमुपजीबामि ॥२८९।।६।। PA गाथार्थः ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यक्त्वदृष्टादिकुलग्रहः । यतः पठ्यते-"दाणे अभिगमसद्दे सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइं जयणाए दाइंति ॥१। सागारिवणिगसुएण गोणे पुत्ते दुग्गंछियकुलाइं । हिंसागं मामागं सवपयत्तेण वज्जेज्जा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः सह साधुः प्रत्यनीकगृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभितस्य संज्ञा अकारि यथापसरेति 'अवहेरि'त्ति अवधीरणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्श्वे सम्प्रवृत्तम् ।।२९०।।७।। ताभ्यां च प्रथमं 'दुवारघट्टण'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णचाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तोत्येवं भणिते सति स आह-कथं गीतवादितेन विना 'नृत्यते' इति गम्यते। ततो भणतस्तौ कुमारौ-आवामिदं गीतादि कुर्व इति ।।२९१॥८॥ ॥३९२।। 'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽकोपस्य साधोर्यः कोपस्तत्र सति तेनोक्तं न नैव एवं विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः कर्षणे हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्ध बाहुयुद्ध तद्विधाय यत्नेन तेन चित्रलिखिताविव तौ कृतौ । ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः ।।२९२॥९॥

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438