________________
श्रीउपदेशपदे
संग्रह
।।३९२॥
धुभिः 'अच्छणं खु'त्ति आसनमेव आद्ध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोक्तमहमात्मलब्धिको न परलब्धिमुपजीबामि ॥२८९।।६।।
PA गाथार्थः ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यक्त्वदृष्टादिकुलग्रहः । यतः पठ्यते-"दाणे अभिगमसद्दे सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइं जयणाए दाइंति ॥१। सागारिवणिगसुएण गोणे पुत्ते दुग्गंछियकुलाइं । हिंसागं मामागं सवपयत्तेण वज्जेज्जा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः सह साधुः प्रत्यनीकगृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभितस्य संज्ञा अकारि यथापसरेति 'अवहेरि'त्ति अवधीरणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्श्वे सम्प्रवृत्तम् ।।२९०।।७।।
ताभ्यां च प्रथमं 'दुवारघट्टण'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णचाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तोत्येवं भणिते सति स आह-कथं गीतवादितेन विना 'नृत्यते' इति गम्यते। ततो भणतस्तौ कुमारौ-आवामिदं गीतादि कुर्व इति ।।२९१॥८॥
॥३९२।। 'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽकोपस्य साधोर्यः कोपस्तत्र सति तेनोक्तं न नैव एवं विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः कर्षणे हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्ध बाहुयुद्ध तद्विधाय यत्नेन तेन चित्रलिखिताविव तौ कृतौ । ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः ।।२९२॥९॥