Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 286
________________ त्रिपष्टिशलाका पुरुषचरिते ॥११४॥ Jain Education Interhol T देभ्यो हर्दिनीभ्यश्च, इदिनीनाथतोऽपि च । तीर्थेभ्यश्चाऽऽहरनीरमौषधीर्मृत्तिकाश्च ते ।। ६७२ ॥ गत्वा पौषधशालायां, राजाऽष्टमतपोऽग्रहीत् । राज्यं तपसाऽऽप्तमपि तपसैव हि नन्दति ।। ६७३ | राजाऽष्टमे परिणमत्यन्तःपुरवृतो ययौ । वारणेन परीवारयुतस्तं दिव्यमण्डपम् ।। ६७४ ॥ अन्तःपुरेण सह तैर्नाटकैश्च सहस्रशः । भरतः प्रविवेशाऽभिषेकमण्डपमुन्नतम् ॥ ६७५ ।। स मृगेन्द्रासनं तत्र स्नानपीठं मणीमयम् । चक्री प्रदक्षिणीच, मेरुशैलमिवाऽर्यमा ॥ ६७६ ॥ पूर्व सोपान पद्धत्या, स्नानपीठं तदुच्चकैः । आरुरोह महीनाथः, शैलप्रस्थमिव द्विपः ॥ ६७७ ॥ प्राचीपतेरिव प्रीत्या प्राग्दिशोऽभिमुखस्ततः । रत्नसिंहासने तत्रोपाविशद् भरतेश्वरः ।। ६७८ ॥ ति द्वात्रिंशत्सहस्राणि, भूपाः कतिपया इव । सुखमारुरुहुः पीठमुदक्सोपानवर्त्मना ।। ६७९ ॥ चक्रिणो नातिदूरोर्व्या, तस्थुर्भद्रासनेषु ते । बद्धाञ्जलिपुटा देवमिव वेन्दारवो नृपाः ।। ६८० ॥ सेनापतिर्गृहपतिर्वर्द्धकिश्च पुरोहितः । श्रेष्ठयादयोऽप्यारुरुहुर्याम्यसोपानमालया ।। ६८१ ॥ आसनेषु समासीनाः, स्वोचितेषु यथाक्रमम् । बद्धाञ्जलिपुटास्तस्थुर्विज्ञीप्सव इव प्रभुम् ॥ ६८२ ॥ ततश्च नरदेवस्यादिदेवस्येव वासवाः । आभियोगिकदेवास्तेऽभिषेकाय डुढौकिरे ।। ६८३ ॥ स्वाभाविकक्रियैव, पयोगभैर्घनैरिव । वदनन्यस्तकमलै, रथाङ्गविहगैरिव ॥ ६८४ ॥ पतत्पानीयनादेन, तूर्यनादानुवादिभिः । ते रत्नकलसैश्चकुरभिषेकं महीपतेः । ६८५ ॥ [ युग्मम् ] १ नदीभ्यः । २ समुद्रात् । ३ गजेन । *ण सहितैर्ना आ ॥ + षमुत्तमम् सं १ ॥ ४ इन्द्रस्य । । द्वात्रिंशत्सहस्रसंख्या भू सं १ ॥ ५ वन्दनशीलाः | ६ चक्रवाकपक्षिभिः । t For Private & Personal Use Only प्रथमं पर्व चतुर्थः सगेः ऋषभ जिनभरतचक्रिचरितम् । भरतस्य चक्रवर्तित्वमहोत्सवः । ॥११४॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410