Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 381
________________ प्रतिवासुदेवाः । चतुर्थस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽब्दपञ्चपञ्चाशल्लक्षजीवितः ॥ ३६१॥ पञ्चमो बलदेवस्तु, भावी नाम्ना सुदर्शनः । सप्तदशवर्षलक्षजीवितो विजयासुतः ॥ ३६२॥ षष्ठो बलो वैजयन्त्याः , सूनुरानन्द आख्यया । पञ्चाशीतिसहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६३ ॥ सप्तमो बलदेवस्तु, नन्दनो नामधेयतः । पञ्चषष्टिसहस्राब्दायुर्जयन्तीसमुद्भवः॥ ३६४॥ अष्टमस्तु बलदेवः, पद्मोऽपराजितासुतः । पञ्चदश सहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६५॥ नवमस्तु बलदेवो, राम इत्यभिधानतः । द्वादशाब्दशतायुष्को, रोहिणीतनुसम्भवः ॥ ३६६ ।। तत्राऽष्टौ मोक्षगा रामो, ब्रह्मकल्पं गमिष्यति । उत्सर्पिण्यां स भरते, कृष्णतीर्थे तु सेत्स्यति॥३६७॥ ___ अश्वग्रीवस्तारकश्च, मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लकेश-मगंधेश्वराः॥३६८॥ वासुदेवप्रतिमल्लाः, सर्वे चक्रप्रहारिणः । हनिष्यन्ते निजैश्चर्वासुदेवकरङ्गतैः ॥ ३६९॥ श्रुत्वा तद् भरताधीशो, भव्यसत्त्वैः समाकुलाम् । दृष्ट्वा च तां सभा हुष्टः, पप्रच्छ स्वामिनं पुनः॥३७॥ जगत्रय इवैकत्र, सामस्त्येनापि तस्थुषि । तिर्यग्नरामरमये, सदसि त्रिजगत्पते ॥ ३७१ ॥ अत्र किं कश्चिदप्यस्ति, भगवन् ! भगवानिव ?। तीर्थ प्रवर्त्य भरतक्षेत्रं यः पावयिष्यति ॥३७२॥[युग्मम्]] शशंस भगवानेवं, य एष तव नन्दनः। मरीचिर्नामधेयेन, परिव्राजक आदिमः ॥ ३७३॥ आर्तरौद्रध्यानहीनः, सम्यक्त्वेन च शोभितः । ध्यायश्चतुर्विधं धर्मध्यानं च रहसि स्थितः ॥ ३७४ ॥ दुकूलमिव पङ्केन, निःश्वासेनेव दर्पणः । कर्मणा मलिनोऽमुष्य, जीवः सम्प्रति वर्त्तते ॥ ३७५ ॥ * सिद्धिगा खंता ॥ । सिद्धिं गमिष्यति । २ प्रतिवासुदेवाः । Jain Education Internal For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410