Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
यत्रैकोऽपि यतिः सिध्येत् , तीर्थ तदपि पावनम् । किं पुनर्यत्र तावन्तः, सिपिधुस्ते महर्षयः ॥४४७॥
अथ शत्रुञ्जयगिरौ, चैत्यं रत्नशिलामयम् । अकारयन्मेरुचूलाग्रस्पर्द्धि भरतेश्वरः ॥ ४४८॥ पुण्डरीकप्रतिमया, सहितां प्रतिमा प्रभोः । चेतनामिव चेतोऽन्तस्तन्मध्येऽस्थापयन्नृपः ॥ ४४९ ॥ नानादेशेषु विहरन् , भविनो भगवानपि । अन्वग्रहीद् बोधिदानाच्चक्षुर्दानादिवाऽन्धलान् ॥ ४५० ॥
प्रभोराकेवलज्ञानाच्छ्रमणानां तु जज्ञिरे । चतुरशीतिसहस्राः, साध्वीलक्षत्रयं तथा ॥ ४५१॥ स पश्चाशत्सहस्रं तु, श्राद्धलक्षत्रयं तथा । श्राद्धीलक्षाः पञ्च सार्दाश्चतुःसहस्रसंयुताः ॥ ४५२ ॥ सहस्राणि तु चत्वारि, तथा सप्त शतानि च । पश्चाशदधिकान्यासन् , श्रीचतुर्दशपूर्विणाम् ॥ ४५३ ॥ *अवधिज्ञानिसाधूनां, सहस्राणि नवाऽभवन् । केवलज्ञानिसाधूनां, सहस्राणि तु विंशतिः ॥ ४५४ ॥ जातवैक्रियलब्धीनां, श्रमणानां महात्मनाम् । षट्शताभ्यधिकान्यासन , सहस्राणि तु विंशतिः॥४५५॥ पृथक् पृथग वादिनां च, मनःपर्ययिणां तथा । द्वादशाऽऽसन् सहस्राणि, सपश्चाशच पदशती ॥४५६ ॥ अनुसरविमानोपपातिनां च महात्मनाम् । द्वाविंशतिसहस्राणि, चाऽभवन् भुवनप्रभोः ॥ ४५७ ॥ एवं चतुर्विधं सङ्घ, भगवानादितीर्थकृत् । धर्मे संस्थापयामास, व्यवहार इव प्रजाः ॥ ४५८ ॥
दीक्षाकालात् पूर्वलक्षं, क्षपयित्वा ततः प्रभुः । ज्ञात्वा स्वमोक्षकालं च, प्रतस्थेऽष्टापदं प्रति ॥४५९॥ शैलमष्टापदं प्राप, क्रमेण सपरिच्छदः । निर्वाणसौधसोपानमिवाऽऽरोहच्च तं प्रभुः ॥ ४६॥
हमी द्वौ ४५४-४५५ तमौ श्लोकौ खंपुस्तके नोपलभ्येते । पिर्यायिणां सं १, २॥ द्वादश सहस्राणि सचतु-1 विशतिपट्शतीं सं० १॥ मोक्षप्रासादसोपानम् ।
Jan Education International
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410