Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
षष्ठः
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
॥१६९॥
शाश्वत्यः प्रतिमा जैन्यो, नेत्रकैरवचन्द्रिकाः। नन्दीश्वरमहाद्वीपचैत्यमध्य इवाऽभवन् ॥ ५८०॥ तेषां च चैत्यस्तूपानां, प्रत्येकं पुरतोऽभवत् । अनर्थ्यमाणिक्यमयी, विशाला चारुपीठिका ॥ ५८१॥ | पीठिकानां पुरस्तासां, प्रत्येकं चैत्यपादपाः । चैत्यद्रूणां पुरस्तेषां, प्रत्येकं मणिपीठिकाः॥५८२॥ उपरीन्द्रध्वजस्तासां, प्रत्येकमपि चाऽभवत् । जयस्तम्भो दिशि दिशि, धर्मेणेवाधिरोपितः ॥ ५८३ ॥ इन्द्रध्वजानां च पुरः, प्रत्येकमपि चाऽभवत् । नाम्ना नन्दा पुष्करिणी, त्रिसोपाना सतोरणा ॥५८४॥ स्वच्छशीतजलापूर्णा, विचित्राम्भोजशालिनी । मनोहरा दधिमुखाधारपुष्करिणीनिभा ॥ ५८५॥ आसीत् सिंहनिषद्याया, महाचैत्यस्य तस्य तु । मध्यभागे सुमहति, महती मणिपीठिका ॥ ५८६ ॥ तस्याश्चोपरि समवसरणस्येव मध्यतः । चित्ररत्नमयो देवच्छन्दकः समजायत ।। ५८७ ॥ नानावांशुकमय, उल्लोचस्तदुपर्यभूत् । उद्भावयन्नकालेऽपि, सन्ध्याभ्रपटलश्रियम् ॥ ५८८ ॥ उल्लोचस्याऽन्तरे पार्श्वतश्च वज्रमयाङ्कुशाः । आसन्नुल्लोचशोभा तु, तथाऽप्यासीन्निरङ्कुशा ॥ ५८९॥ सुधाधारोपमा हारा, अङ्कुशेष्ववलम्बिताः । कुम्भमेयैरामलकस्थूलैर्मुक्ताफलैः कृताः ॥ ५९० ॥ हारप्रान्तेषु चाऽभूवन् , विमला मणिमालिकाः । त्रैलोक्यमणिखानीनामाहृता इव वर्णिकाः ॥ ५९१ ॥ प्रान्तेषु मणिमालानाममला वज्रमालिकाः । औलिका इव भादोभिरालिङ्गन्त्यः परस्परम् ॥ ५९२ ॥ तद्भित्तिषु गवाक्षाश्चाऽभवंश्चित्रमणीमयाः । स्वप्रभापटलैर्जाततिरस्करिणिका इव ॥ ५९३॥ दह्यमानागरुधूमस्तोमास्तेषु चकाशिरे । गिरेस्तस्य नवोद्भुतनीलचूलाभ्रमप्रदाः ॥ ५९४ ॥ १ नेत्रकुमुदज्योत्स्नाः । २ आमलकफलवत् स्थूलैः । ३ सख्यः । ४ कान्तिभुजैः। ५ जातजवनिकाः ।
अष्टापदोपरि भरतकारितः सिंहनिषद्या| जिनप्रासाद
॥१६९॥
Jain Education International
For Private & Personal use only
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410