Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 405
________________ चित्रीयमाणाश्चित्रैश्चाऽङ्गहारैः करणैरपि । नर्तक्यो ननृतुस्तारं, लास्यताण्डवपण्डिताः॥ ७१२ ॥ प्रेक्षाश्चक्रे प्रेक्षणीयानीत्यविघ्नं महीपतिः । यत्र तत्र प्रसक्तानां, प्रभृणां को हि बाधकः ? ॥७१३ ॥ सांसारिकसुखान्येवं, भुञ्जानो भरतेश्वरः । स्वामिमोक्षदिनात् पूर्वलक्षाः पञ्चात्यवाहयत् ॥ ७१४ ॥ __ अपरेयुः कृतस्नानः, प्रकृप्तबलिकर्मकः । देवदूष्यांशुकोन्मृष्टशरीरः स्रग्विकुन्तलः ॥ ७१५॥ गोशीर्षचन्दनकृतसर्वाङ्गीणविलेपनः । सर्वाङ्गनिहितानय॑दिव्यरत्नविभूषणः ॥ ७१६ ॥ सोऽन्तःपुरनिकेतान्तवरस्त्रीपरिवारितः । वेत्रिण्या दर्यमानाध्या, रत्नादर्शगृहं ययौ ॥७१७॥ _ [त्रिभिर्विशेषकम् ] प्रतिबिम्बितमत्यच्छे, गगनस्फटिकोपमे । यथाप्रमाणं सर्वाङ्ग, रूपं तत्र हिं दृश्यते ॥ ७१८॥ तत्र च प्रेक्षमाणस्य, खं वपुर्भरंतेशितुः । अङ्गुल्या एकतमस्या, निपपाताऽङ्गुलीयकम् ॥ ७१९ ॥ तदङ्गल्या गलितमप्यङ्गुलीयं महीपतिः । नाऽज्ञासीद् बैर्हिणो बहभाराद् बेहमिवैककम ॥ ७२०॥ वपुः पश्यन् क्रमेणेक्षाञ्चक्रे तां चयनूमिकाम् । अङ्गुली गलितज्योत्नां, दिवा शशिकलामिव ॥ ७२१॥ अहो ! विशोभा किमसावङ्गुलीति विचिन्तयन् । ददर्श पतितं भूमावङ्गुलीयं नरेश्वरः ॥ ७२२ ॥ किमन्यान्यपि विशोभान्यङ्गान्याभरणैर्विना ? । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ॥७२३ ॥ आदावुत्तारयामास, माणिक्यमुकुटं नृपः । तद्धीनं च शिरोऽपश्यच्युतरत्नामिवोर्मिकाम् ।। ७२४ ॥ माणिक्यकुण्डले प्रोज्झ्य, तद्धीनौ च ददर्श सः । कर्णपाशावनन्दु, पूर्वापरदिशाविव ॥ ७२५॥ * स्निग्धकुन्तलः आ ॥ ह्यश्यत खंता ॥ भरतेश्वरः सं २, आ॥ १ मयूरस्य । २ पिच्छम् । ३ सूर्यचन्द्ररहिते। भरतस्य रवादर्शगृहान्तः केवलोत्पत्तिः। Jain Education Intel For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410