Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 398
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१७॥ | सर्ग: ऋषभजिन| भरतचत्रिचरितम् । लोमहस्तपटल्योऽथ, विभूषणकरण्डकाः । हैमानि धूपदहनकानि चाऽऽरात्रिकाणि च ॥ ६१०॥ रत्नमङ्गलदीपाश्च, रत्नभृङ्गारका अपि । स्फाराणि रत्नस्थालानि, तापनीयाः पतनहाः ॥ ६११॥ रत्नचन्दनकलसा, रत्नसिंहासनानि च । रत्नमय्योऽष्टमङ्गल्यो, हैमास्तैलसमुद्गकाः ॥ ६१२ ॥ धूपभाण्डानि हैमानि, हैमाश्चोत्पलहस्तकाः। पुरो बभूवुश्च चतुर्विशतेः श्रीमदर्हताम् ॥ ६१३ ॥ इति नानारत्नमय, त्रैलोक्येऽप्यतिसुन्दरम् । मर्नेन धर्मेणेवेन्दुकान्तवप्रेण शोभितम् ॥ ६१४ ॥ ईहामृगोक्ष-मकर-तुरङ्ग-नर-किन्नरैः । विहङ्ग-वालक-रुरु-शरभैश्चमरैर्द्विपैः ॥ ६१५ ॥ बनलताऽब्जलताभिर्विचित्राद्धृतभङ्गिकम् । बहुगुममिवोद्यानं, रत्नस्तम्भसमाकुलम् ॥ ६१६ ॥ व्योमगङ्गोर्मिभिरिव, पताकाभिर्मनोरमम् । उन्नतैर्दन्तुरमिव, ध्वजदण्डैश्च काश्चनैः ॥ ६१७ ॥ ध्वजस्थकिङ्किणीकाणैः, प्रसरद्भिनिरन्तरैः । खेचरस्त्रैणरसनादामध्वनिविडम्बकम् ॥ ६१८ ॥ उपरि भ्राजमानं च, विशालद्युतिशालिना । पद्मरागाश्मकुम्भेन, माणिक्येनाऽङ्गुलीयवत् ॥ ६१९ ।। क्वचित् पल्लवितमिव, संवर्मितमिव क्वचित् । क्वचिद् रोमाञ्चितमिव, क्वचिल्लिप्तमिवाऽशुभिः ॥ ६२० ॥ गोशीर्षचन्दनरसमयस्थासकलाञ्छितम् । अतिसुश्लिष्टसन्धित्वादेकग्राव्णेव निर्मितम् ॥ ६२१ ॥ माणिक्यशालभञ्जीभिश्चेष्टावैचित्र्यचारुभिः । अधिष्ठितनितम्बं चाऽप्सरोभिर्मेरुशैलवत् ॥ ६२२ ॥ द्वारदेशमुभयतो, लिप्ताभ्यां चन्दनद्रवैः । कुम्भाभ्यां पुण्डरीकाभ्यां, स्थलजाभ्यामिवाङ्कितम् ॥ ६२३ ॥ धूपितैर्दामभी रम्यं, तिर्यग्बद्धावलम्बितैः । कुसुमैः पञ्चवर्णैश्च, रचितप्रकरं तले ॥ ६२४ ॥ , चामरसमूहाः। २ पात्राणि। ३ वृकः। ४ मृगविशेषः। ५ अष्टापदः । CRORSEECAUSESCACAN अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनप्रासादः। | ॥१७॥ Jan Education Inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410