Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
॥१७॥
सर्गः ऋषभजिनभरतचकिचरितम् ।
कृत्वा प्रदक्षिणां तत्र, प्रतिमास्ताः सुगन्धिभिः । उदकैः स्त्रपयामास, भूपतिः सपरिच्छदः॥ ६३९ ॥ ममार्ज देवदृष्यैश्च, भरतः परितोऽपि ताः । रत्नादर्श इवाऽभूवंस्तास्ततश्चाधिकोज्वलाः ॥ ६४०॥ गोशीर्षचन्दनरसैविलिलेप नृपोऽथ ताः । सुगन्धिस्त्यानतां प्राप्तोत्स्नापूरैरिवाऽमलैः ॥ ६४१॥ ताः क्षमापतिरानर्च, विचित्र रत्नभूषणैः । दिव्यदामभिरुद्दामैर्देवदृष्यांशुकैरपि ॥ ६४२॥ ददाह वादयन् घण्टां, धूपं तद्भूमवर्तिभिः । कुर्वन् चैत्यान्तरं नीलवल्लरीभिरिवाङ्कितम् ॥ ६४३॥ ततश्चोत्तारयामास, कर्पूरारात्रिकं नृपः । संसारशीतमीतानामग्निकुण्डमिव ज्वलत् ॥ ६४४ ॥ ऋषभखामिनो नत्वा, प्रतिमां भरतेश्वरः । आक्रान्तः शोकभक्तिभ्यां, स्तोतुं प्रस्तुतवानिति ॥६४५॥ __ कल्याणैः पञ्चभिर्दत्तसुखाय श्वभ्रिणामपि । जगत्सुखाकर! नमस्तुभ्यं त्रिजगदीश्वर ! ॥ ६४६ ॥ खामिन् ! विचजनीनेन, त्वया विहरताऽन्वहम् । रविणेवाऽनुगृहीतं, चराचरमिदं जगत् ॥ ६४७ ॥ अप्यार्याणामनार्याणां, प्रीतये व्यहरश्चिरम् । गतिः परोपकाराय, भवतः पवनस्य च ॥ ६४८॥ उपकर्तुमिहाऽन्येषां, व्यहार्भगवंश्चिरम् । मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर ! १ ॥६४९ ॥ लोकाग्रमद्य लोकाग्रं, भवता यदधिष्ठितम् । मत्त्यलोकोऽयमद्यैव, मत्यलोकस्त्वयोज्झितः ॥ ६५० ॥ अद्यापि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुग्रहकरिणी, देशनां ये स्मरन्ति ते ॥ ६५१॥ रूपस्थमपि ये ध्यानं, त्वयि नाथ ! प्रयुञ्जते । प्रभो! प्रत्यक्षमेवाऽसि, तेषामपि महात्मनाम् ॥ ६५२॥
१ सुगन्धिघनताम् । २ चैत्यमध्यम् । ३ नारकाणाम्। ४ विश्वहितकारकेण। ५ मोक्षम्। सर्वलोकोत्तरम् । ७ मनुष्यलोकः। ८ मरणोचितलोकः ।
अष्टापदनासादान्तःस्थितानां जिनानां स्तुतयः।
॥१७॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410