Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
॥१६८॥
सर्गः ऋषभजिनभरतचकिचरितम् ।
अथ गोत्रभिदादेशान्नाकिनोऽग्निकुमारकाः। चितासु तासु तत्कालमग्निकायान् विचक्रिरे ॥५४९॥ शक्राज्ञया विचक्रुश्च, वायून वायुकुमारकाः । अभितो ज्वालयामासुर्वह्निमहाय ते ततः॥ ५५० ॥ चिताविन्द्राज्ञया देवाः, करादीनि भारशः । निदधुः कुम्भशश्चापि, सपौषि च मधूनि च ॥५५१॥ मुक्त्वाऽस्थि धातवो यावद् , दग्धास्तावच्चितानलम् । व्यध्यापयन् सुराः क्षीराम्भोभिर्मेषकुमारकाः॥५५२॥ प्रतिमावत पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनी, दंष्ट्रां वामेतरां प्रभोः ॥५५३ ॥ ईशानोऽप्युपरितनी, तदंष्ट्रां दक्षिणेतराम् । अधस्तनी दक्षिणां तु, चमरेन्द्र उपाददे ॥ ५५४ ॥ बलिर्वामामधोदंष्ट्रां, जग्राहाऽन्ये तु वासवाः । शेषदन्तान् नाकिनोऽन्ये, जगृहु: कीकसानि तु ॥५५५॥ मार्गन्तः श्रावका देवैर्दत्तकुण्डत्रयाग्नयः । ततः प्रभृत्यभूवंस्ते, ब्राह्मणा अग्निहोत्रिणः॥ ५५६॥ ते हि खामिचितावह्नि, गृहे नित्यमपूजयन् । रक्षन्ति स्म च निर्वातं, लक्षदीपमिवेश्वराः॥ ५५७ ॥ इक्ष्वाकुवंश्यशेषानगाराणां ते चितानलौ । निर्वाणो जीवयन्ति स्म, स्वामिचित्याकृशानुना ॥५५८ ॥ इक्ष्वाकूणां महर्षीणामपि चित्याकृशानुना । अन्यानगारिचित्याग्निं, ते निर्वाणमबोधयन् ॥ ५५९ ॥ अन्यानगारिचित्याग्निं, चित्याग्योरन्ययोः पुनः । न हि सङ्कमयन्ति स्म, द्विजेष्वद्याऽप्यसौ विधिः॥५६॥ केचित् तु लब्धभसानो, भक्त्या भस्म ववन्दिरे । ततः प्रभृति जाताच, तापसा भसभूषणाः॥५६१॥।
चितास्थानत्रये देवा, रत्नस्तूपत्रयं ततः । अष्टापदगिरेनव्यं, शृङ्गत्रयमिव व्यधुः ॥ ५६२॥ ततो नन्दीश्वरद्वीपे, शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः, सेन्द्राः स्वं खं पदं ययुः॥५६३॥ १ इन्द्रादेशात् । २ शीघ्रम् । ३ घृतानि । ४ अस्थीनि । ५ अग्निना। ६ देयाः ।
I
ऋषभजिननिर्वाणमहो
त्सवः।
॥१६८॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410