Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 389
________________ लघुकुर्वन्निवाऽध्वानं, रंहसा भरतेश्वरः । समीरण इव प्राप, क्षणेनाऽष्टापदाचलम् ॥ ४७६ ॥ परिश्रममजानानो, जनवत् पादचायपि । अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ॥ ४७७ ॥ ईक्षाञ्चक्रे चक्रवर्ती, शोकहर्षसमाकुलः । तत्र च त्रिजगन्नाथं, पर्यङ्कासनसंस्थितम् ॥ ४७८ ॥ तत्र प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । देहच्छायेव पार्श्वस्थः, समुपास्ते स चक्रभृत् ॥ ४७९ ॥ इत्थं स्थिते प्रभावतेऽप्यसासु कथमासते ? । इति हेतोरिवेन्द्राणामासनानि चकम्पिरे ॥ ४८०॥ अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पस्य कारणम् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥ ४८१॥ तेऽपि प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥४८२॥ तथाऽस्यामवसर्पिण्यां, तृतीयस्याऽरकस्य तु । पक्षेष्वेकोननवताववशिष्टेषु सत्सु च ॥ ४८३ ॥ माघाभिधानमासस्य, कृष्णत्रयोदशीतिथौ । पूर्वाह्नेऽभीचिनक्षत्रे, शशियोगमुपागते ॥ ४८४ ॥ तथा निषण्णः पर्यङ्कासने स्थित्वा च बादरे । काययोगे बादरौ वाक्चित्तयोगौ रुरोध च ॥ ४८५॥ सूक्ष्मेण काययोगेन, काययोगं च बादरम् । रुद्वा रुरोध मूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ॥ ४८६॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ ४८७॥ ततश्च ध्यानमुँच्छन्नक्रियं नाम तुरीयकम् । पञ्चहखाक्षरोच्चारमितकालमशिश्रियत् ॥ ४८८ ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणकर्मा निष्ठितार्थोऽनन्तवीर्यसुखर्द्धिकः ॥ ४८९ ॥ बन्धाभावार्ध्वगतिरेरण्डफलबीजवत् । प्रभुः खभावादृजुना, पथा लोकाग्रमासदत् ॥ ४९०॥ * ° मुत्सन्न सं १ ॥ १ अ इ उ ऋ ल इति पञ्चहस्वाक्षरोच्चारे यावान् कालो जायते तावत्कालमितं कालम् । शैलेशी करणम्। Jain Education inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410