Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१६१॥
Jain Education Internatio
तस्यामेव नगर्यां तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ॥ ३४६ ॥ वर्त्तमाने जिनेऽनन्ते, त्रिंशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्ठीं नरकोव गमिष्यति ॥ ३४७ ॥ अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनुन्नतिः ॥ ३४८ ॥ शिवराजा-मृतानुर्वलक्षाण्यसौ दश । आयुरनुपाल्य पष्ठीं, नरकोवीं गमिष्यति ॥ ३४९ ॥ चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमल्यन्तरे लक्ष्मीवती- महाशिरः सुतः ।। ३५० ।। एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी ।। ३५१ ॥ दत्तो वाराणसीपुर्यां षड्विंशतिधनुन्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ॥ ३५२ ॥ षट्पञ्चाशत्सहस्राणि वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमीं नरकावनीम् ॥ ३५३ ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ ३५४ ॥ सुमित्रादशरथ भूर्धनुः षोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ॥। ३५५ ॥ कृष्णस्तु मथुरापुर्या, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ॥ ३५६ ॥ सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां तृतीयायां गमिष्यति ॥ ३५७ ॥
प्रथम वलदेवस्तु तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्ष लक्षाण्यायुरस्य भविष्यति ॥ ३५८ ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता ।। ३५९ । तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चपष्टिर्वर्षलक्षाणि जीविता ॥ ३६० ॥ * इमौ द्वौ ३५४, ३५५ तमौ श्लोकौ खंपुस्तके न दृश्येते । कैकेयीद खंता, सं १, २ ॥
For Private & Personal Use Only
प्रथमं पर्व
षष्ठः सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ।
बलदेवाः ।
॥१६१॥
www.jainelibrary.org.
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410