________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१६१॥
Jain Education Internatio
तस्यामेव नगर्यां तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ॥ ३४६ ॥ वर्त्तमाने जिनेऽनन्ते, त्रिंशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्ठीं नरकोव गमिष्यति ॥ ३४७ ॥ अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनुन्नतिः ॥ ३४८ ॥ शिवराजा-मृतानुर्वलक्षाण्यसौ दश । आयुरनुपाल्य पष्ठीं, नरकोवीं गमिष्यति ॥ ३४९ ॥ चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमल्यन्तरे लक्ष्मीवती- महाशिरः सुतः ।। ३५० ।। एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी ।। ३५१ ॥ दत्तो वाराणसीपुर्यां षड्विंशतिधनुन्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ॥ ३५२ ॥ षट्पञ्चाशत्सहस्राणि वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमीं नरकावनीम् ॥ ३५३ ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ ३५४ ॥ सुमित्रादशरथ भूर्धनुः षोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ॥। ३५५ ॥ कृष्णस्तु मथुरापुर्या, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ॥ ३५६ ॥ सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां तृतीयायां गमिष्यति ॥ ३५७ ॥
प्रथम वलदेवस्तु तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्ष लक्षाण्यायुरस्य भविष्यति ॥ ३५८ ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता ।। ३५९ । तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चपष्टिर्वर्षलक्षाणि जीविता ॥ ३६० ॥ * इमौ द्वौ ३५४, ३५५ तमौ श्लोकौ खंपुस्तके न दृश्येते । कैकेयीद खंता, सं १, २ ॥
For Private & Personal Use Only
प्रथमं पर्व
षष्ठः सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ।
बलदेवाः ।
॥१६१॥
www.jainelibrary.org.