SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Jain Education International अरमल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां पुनः पद्मो, ज्वाला - पद्मोत्तरात्मजः ॥३३२॥ त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुच्छ्रितः । काम्पिल्ये हरिषेणस्तु, मेरा महाहरिप्रसूः ॥ ३३३ ॥ दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः । मुनिर्नम्योर्विहरतोर्द्वावप्येतौ भविष्यतः ॥ ३३४ ॥ वप्रा विजयभू राजगृहे द्वादशकार्मुकः । जयख्यब्दसहस्रायुर्नमिनेमिजिनान्तरे ॥ ३३५ ॥ काम्पिल्ये ब्रह्मदत्तस्तु, चुलनी ब्रह्मनन्दनः । सप्तवर्षशतायुष्कः, सप्तधन्वसमुन्नतिः ॥ ३३६ ॥ श्री नेमिनाथ श्री पार्श्वनाथतीर्थान्तरे त्वसौ । रौद्रध्यानपरो गामी, सप्तमीं नरकावनीम् ॥ ३३७ ॥ तत्र प्रभुपृष्टोऽपीत्याख्यच्चत्र्यर्द्धविक्रमाः । त्रिखण्डावनिभोक्तारो, वासुदेवा नवाऽसिताः ॥ ३३८ ॥ अष्टमः काश्यपकुलस्तेषु शेषास्तु गौतमाः । सापत्ना भ्रातरस्तेषां बलदेवाः सिता नव ॥ ३३९ ॥ त्रिपृष्टः केशवस्तत्र, नगरे पोतनाह्वये । प्रजापति-मृगावत्योः, सुतोऽशीतिधनून्नतिः ॥ ३४० ॥ महीं विहरमाणे तु, श्रेयांसजिनपुङ्गवे । चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गमी ॥ ३४९ ॥ द्वारवत्यां द्विपृष्ठस्तु, धनुःसप्ततिमुन्नतः । भुवं विहरमाणे तु, वासुपूज्यजिनेश्वरे ॥ ३४२ ॥ द्वासप्ततिवर्ष लक्षायुः पद्मा ब्रह्मनन्दनः । गमिष्यति च सोऽवश्यं, षष्ठीं नरकमेदिनीम् ॥ ३४३ ॥ द्वारवत्यां स्वयम्भूस्तु, धनुःषष्टिसमुन्नतः । षष्टिवत्सरलक्षायुर्विमलस्वामिवन्दकः ॥ ३४४ ॥ भद्रराजस्य पृथिवीदेव्याचैष तनूरुहः । गमिष्यति च पूर्णायुः, षष्ठिकां नरकावनीम् ॥ ३४५ ॥ १] पद्माख्यश्वी । * नम्यन्तराले तु द्वा° खंता ॥ २ जयाख्यश्चकी । ३ कृष्णवर्णाः । ४ गौतमकुलाः । + इत आरभ्य ३४८ पर्यन्तं श्लोकाः संपुस्तके पतिताः ॥ For Private & Personal Use Only वासुदेवाः । www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy