SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते ॥१६०॥ सगे: ऋषभजिन| भरतचक्रिचरितम् । |चक्रवर्तिनः । मिथिलायां स्वर्णवर्णो, वप्रा-विजयभूमिः । दशवर्षसहस्रायुः, पञ्चदशधनूनतिः ॥३१८ ॥ समासहस्रद्वितयं, सार्द्धमेतस्य तु व्रतम् । मोक्षान्तरं मुनिनम्योर्वर्षलक्षाः षडेव हि ॥३१९ ॥ ___ *शिवा-समुद्रविजयात्मजः शौर्यपुरे शितिः । नेमिर्दशधनुस्तुङ्गः, समासहस्रजीवितः ॥३२०॥ शतानि सप्त वर्षाणां, प्रव्रज्यायाममुष्य तु । मुक्त्यन्तरे नमिनेम्योर्वर्षलक्षाणि पश्च तु ॥ ३२१॥ वामा-ऽश्वसेनभूः पाश्चों, वाराणस्यां विनीलरुक् । नवहस्तप्रमाणाङ्गः, शतवत्सरजीवितः॥३२२॥ वर्षाणां सप्ततिस्तस्य, व्रतेऽन्तरे तु वत्सराः । सहस्राणि त्र्यशीतिः सार्दानि सप्तशतानि च ॥ ३२३ ॥ ___ कुण्डग्रामे महावीरः, सिद्धार्थ-त्रिशलासुतः । स्वर्णाभः सप्तहस्ताङ्गो, द्वासप्तत्यब्दजीवितः ॥३२४॥ द्वाचत्वारिंशदब्दानि, प्रव्रज्यायाममुष्य च । पार्श्ववीरान्तरालं तु, सार्द्ध वर्षशतद्वयम् ॥ ३२५॥ काश्यपाश्चक्रिणः स्वर्णवर्णा अष्टेषु मोक्षगाः। त्वं मयीवाऽजिते तत्राऽयोध्यायां सगरः खलु ॥३२६॥ तुक सुमित्र-यशोमत्योः, सार्द्धधन्वचतुःशतः । द्वासप्तत्या पूर्वलक्षैः, स तु प्रमितजीवितः ॥ ३२७॥ श्रावस्त्यां मघवा भद्रा-समुद्रविजयात्मजः । पञ्चाब्दलक्षायुः सार्द्धद्विचत्वारिंशधन्वकः ॥ ३२८॥ सनत्कुमारोऽब्दलक्षत्रयायुर्हस्तिनापुरे । प्राग्मानादेकधन्वोनः, सहदेव्यश्वसेनभूः ॥ ३२९॥ धर्मशान्त्यन्तरे चैतौ, तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररश्चैतेर्हन्तश्चक्रभृतोऽपि च ॥ ३३०॥ तारा-कृतवीर्यसुतः, सुभूमो हस्तिनापुरे । षष्टिवर्षसहस्रायुरष्टाविंशिधनून्नतिः॥ ३३१ ॥ * इमौ द्वौ ३२०, ३२१ तमौ श्लोकौ खं पुस्तके नोपलभ्यते ॥ १ श्यामवर्णः । । वर्षाणि खंता ॥ व्रतेऽगादन्तरे पुनः हासं २, आ, दीक्षायामन्तरे पुनः सं ॥ २ काश्यपगोत्रिणः । ३ पुत्रः । ॥१६॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy