SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ काम्पिल्ये च कृतवर्म-श्यामाभूर्विमलो जिनः । पष्टिवत्सरलक्षायुः, पष्टिधन्वा सुवर्णरुक् ॥३०२॥ अमुष्य च पञ्चदश वर्षलक्षाणि तु व्रतम् । वासुपूज्यान्ततन्मोक्षान्तरे च त्रिंशदर्णवाः ॥३०३॥ अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णरुक् ।अनन्तस्त्रिंशल्लक्षाब्दायुः पञ्चाशद्धनून्नतिः॥३०४॥ सार्दानि वर्षलक्षाणि, सप्त तस्य पुनर्वतम् । विमलमोक्षतन्मोक्षान्तरे च नव सागराः ॥ ३०५॥ धर्मो रत्नपुरे भानु-सुव्रताभूः सुवर्णरुक् । दशाब्दलक्षायुः पञ्चचत्वारिंशद्धनूनतिः ॥ ३०६॥ पर्यायस्तस्य वर्षाणां, सार्द्ध लक्षद्वयं खलु । अनन्तमोक्षतन्मोक्षान्तरेऽर्णवचतुष्टयम् ॥ ३०७॥ पुरे गजपुरे शान्तिर्विश्वसेना-चिरासुतः । स्वर्णवर्णोऽब्दलक्षायुश्चत्वारिंशद्धनूनतिः॥३०८॥ पञ्चविंशतिरब्दानां, सहस्राण्यस्य तु व्रते । अब्धित्रयं पल्यचतुर्भागत्रिकोनमन्तरम् ॥ ३०९ ॥ ___ कुन्थुर्गजपुरे स्वर्णवर्णः सूर-श्रियोः सुतः । पञ्चनवत्यब्दसहस्रायुः पल्यार्द्धकान्तरः ॥ ३१०॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पर्यायेऽस्य तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसप्तशतानि च ॥ ३११॥ __ स्वर्णाभोऽरो गजपुरे, देवी-सुदर्शनात्मजः । चतुरशीत्यब्दसहस्रायुस्त्रिंशद्धनून्नतिः ॥ ३१२ ॥ पर्याये तस्य वर्षाणां, सहस्राण्येकविंशतिः। पल्यतुर्याशोऽब्दकोटिसहस्रोनो जिनान्तरम् ॥ ३१३॥ __ मल्लिनाथो मिथिलायां, कुम्भ-प्रभावतीप्रसूः । पञ्चविंशतिधन्वाऽब्दकोटीसहस्रकान्तरः ॥३१४॥ नीलोऽस्याऽब्दसहस्राणि, पञ्चपञ्चाशदायुपि । एकवर्षशतोनानि, पूर्वोक्ताब्दानि तु व्रते ॥३१५॥ पद्मा-सुमित्रसू राजगृहे कृष्णस्तु सुव्रतः। त्रिंशद्वर्षसहस्रायुधनुर्विंशतिमुन्नतः ॥ ३१६ ॥ सप्तवर्षसहस्राणि, सार्द्धान्येतस्य तु व्रतम् । चतुष्पश्चाशदब्दानां, लक्षाणि तु जिनान्तरम् ॥३१७ ॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy