________________
प्रथम पर्व
पष्टः
त्रिषष्टि
शलाकापुरुषचरिते ॥१५९॥
सर्ग: ऋषभजिनभरतचक्रिचरितम् ।
तीर्थकृतः।
द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ॥ २८६॥ ___ कौशाम्ब्यां धर-सुसीमामनुः पद्मप्रभोऽरुणः। त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धधन्वशतद्वयः ॥२८॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥ २८८॥ __ वाराणस्यां तु प्रतिष्ठ-पृथ्वीमनुः सुवर्णरुक् । सुपाश्चों विंशतिपूर्वलक्षायुर्द्विधनुःशतः ॥ २८९ ॥ विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीनां, सहस्राणि नवाऽन्तरम् ॥ २९० ॥
चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुष्कः, शुभ्रः सार्धधनुःशतः ॥२९शा चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, शतानि नव चाऽन्तरम् ॥ २९२ ॥ ___ काकन्द्यां सुग्रीव-रामातनयः सुविधिः सितः। पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ॥२९३॥ अष्टाविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, नवतिः पुनरन्तरम् ॥ २९४ ॥ ___ शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्वलक्षायुर्धनुर्नवतिमुच्छ्रितः॥ २९५ ॥ अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिनाथोपमानां कोटयो नव ॥ २९६ ॥
सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु जिनोऽशीतिशरासनसमुन्नतिः॥२९७॥ वर्षाणां चतुरशीत्या, लक्षैः प्रमितजीवितः । अमुष्य तु व्रते वर्षलक्षाणामेकविंशतिः॥ २९८॥ पविशत्याऽब्दसहस्रैः, षषष्ट्या वर्षलक्षकैः । तथाऽर्णवशतेनोनाऽर्णवकोटिर्जिनान्तरम् ॥ २९९ ॥
चम्पापुयों वासुपूज्यो, वसुपूज्य-जयात्मजः। द्वासप्तत्यब्दलक्षायुर्धनुःसप्ततिमुन्नतः॥३०॥ रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् ।। ३०१॥
॥१५९॥
Jain Education Internation
For Private & Personal use only