SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भगवन्तं प्रति भरतस्य पृच्छाः । तीर्थकृतः। आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ २७२ ॥ देशनाविरतौ नत्वा, स्वामिनं भरतेश्वरः। रोमाञ्चितवपुर्वद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ २७३॥ नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मचक्रिणश्चक्रिणः कति ? ।। २७४ ॥ तेषां च नगरं गोत्रं, पितरावभिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्रभो॥२७५ ॥ अथाऽचचक्षे भगवान् , भरते भाविनोऽपरे । त्रयोविंशतिरहन्त, एकादश च चक्रिणः॥ २७६ ॥ जिनौ च विंशद्वाविंशी, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ॥ २७७॥ अयोध्यायां जितशत्रु-विजयातनयोऽजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ॥ २७८ ॥ अर्द्धपश्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ॥ २७९ ॥ तथा मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीना, लक्षाः पश्चाशदन्तरम् ॥ २८० ॥ श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्यः ॥२८१॥ चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, लक्षाणि त्रिंशदन्तरम् ।। २८२॥ विनीतापुर्या संवर-सिद्धार्थाजोभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः ॥ २८३॥ स्वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीनां, दशलक्षाणि चाऽन्तरम् ॥ २८४ ॥ तत्पुर्या सुमतिर्मेघ-मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुविधनुःशतः ॥ २८५॥ . सर्वभाषानुगामिन्या। २ तीर्थकराः। ३ नाम । ४ सुवर्णकान्तिः। ५ शरीरम् । * चत्वरिंशत्पूर्वलक्षायुधनुत्रिशतीमितः सं २॥ . Jain Education International For Private & Personal use only
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy