SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः ॥१५८॥ ऋषभजिनभरतचक्रिचरितम्। -- इतश्च भरतस्तस्थौ, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ॥ २५७ ॥ अवनि पावयन् पादैर्गगनं चन्द्रमा इव । अन्येधुर्भगवानागादष्टापदमहागिरिम् ॥२५८॥ सद्यश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चक्रे जगन्नाथो, विदधे धर्मदेशनाम् ॥ २५९॥ तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ २६॥ पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥ २६१ ॥ *अष्टापदे च समवसृतं स्वामिनमेत्य सः । प्रदक्षिणीकृत्य नमस्कृत्य चक्रीति तुष्टुवे ॥२६२॥ त्वत्प्रभावात् स्तवीमि त्वामप्राज्ञोऽपि जगत्पते । शशिनं पश्यतां दृष्टिमन्दापि हि पट्टयते ॥२६३॥ मोहान्धकारनिर्मग्नजगदालोकदीपक !। आकाशवदनन्तं ते, स्वामिन् ! जयति केवलम् ।। २६४ ॥ प्रमादनिद्रामन्नानां, नाथ ! कार्येण मादृशाम् । एवं गतागतानि त्वं, करोष्यर्क इवाऽसकृत् ।। २६५ ॥ जन्मलक्षार्जितं कर्म, त्वदालोकाद् विलीयते । कालेन दृषैदीभूतमप्याज्यं वह्निना द्रवेत् ॥ २६६ ॥ एकान्तसुषमातोऽपि, साध्वी सुषमदुःषमा । यत्र कल्पद्रुमेभ्यस्त्वं, विशिष्टफलदोऽभवः ॥२६७ ॥ . समस्तभुवनेशेदं, भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥ २६८ ॥ पिता माता गुरुः स्वामी, यत् सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव, त्वं हितं विदधासि तत् ॥२६९॥ निशा निशाकरेणेव, हंसेनेव महासरः । वदनं तिलकेनेव, शोभते भुवनं त्वया ॥ २७० ॥ इति स्तुत्वा नमस्कृत्य, भगवन्तं यथाविधि । निषसाद यथास्थानं, विनयी भरतेश्वरः ॥ २७१ ॥ १ नियुक्तपुरुषैः । * इमौ द्वौ २६२,२६३ तमौ श्लोको खंपुस्तके पतितौ । २ समर्था भवति । ३ स्त्यानीभूतम् । ४ घृतम् । |॥१५८॥ Jain Education in For Private & Personal use only PIN www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy