________________
भरतेनार्य
वेदानां निर्माणम् ।
अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षां चक्रिरे नवाः । श्रावकाः काँकिणीरत्नेनाऽऽलम्ब्यन्त तथैव हि ॥२४२॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठन्निदम् । जितो भवानित्याधुच्चैाहनास्ते ततोऽभवन् ॥ २४३॥ निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद् , विरक्तैर्बतमाददे ॥ २४४ ॥ परीषहासहैः कैश्चिच्छावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ॥ २४५॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात् , केन केन न पूज्यते ॥२४६॥ अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान् वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ॥२४७॥ क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ २४८॥ इयं भरतराज्येऽभूत् , स्थितिर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ॥ २४९॥ महायशाप्रभृतयः, केचिद् रौप्याणि चक्रिरे। पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ॥२५०॥[युग्मम्] भरतादादित्ययशास्ततश्चाऽऽसीन्महायशाः। अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ॥२५१॥ कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥२५२ ॥ एभिभूपैश्च बुभुजे, भरताधं समन्ततः । भगवन्मुकुटः शक्रोपनीतो मूय॑धारि च ॥ २५३ ॥ शेषैर्महाप्रमाणत्वान्न स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरः ॥ २५४॥ जज्ञे साधुविच्छेदोऽन्तनवमदशमाहेतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ॥ २५५ ॥ वेदाश्चाऽर्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥२५६ ॥
* काकणी खंता ॥ + काकणी खंता काकणी खंता ॥ काकण्य खंता ॥ सुविधिशीतलाख्यतीर्थकृतोः । इतः खंता ॥
अनार्यवेदाः।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org