Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
KIR
प्रथमं पर्व
त्रिषष्टिशलाका.
षष्ठः
पुरुषचरिते
॥१६॥
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
शुक्लध्यानाग्निसंयोगादग्निशौचमिवाऽशुकम् । जात्यं सुवर्णमिव च, स क्रमाच्छुद्धिमेष्यति ॥ ३७६ ॥ इहैव भरतक्षेत्रे, नगरे पोतनाभिधे । त्रिपृष्ठो नाम दाशार्हः, प्रथमोऽसौ भविष्यति ॥ ३७७॥ क्रमात् प्रत्यग्विदेहेषु, मूकायां पुरिचयसौ। तुग् धनञ्जय-धारिण्योः, प्रियमित्रो भविष्यति ॥३७८॥ चिरं च संसृत्य भवे, भविष्यत्यत्र भारते । अयं नाम्ना महावीरश्चतुर्विंशस्तु तीर्थकृत् ॥ ३७९ ॥
इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतेश्वरः। मरीचिं वन्दितुं भक्त्या, भगवन्तमिवाऽभ्यगात् ॥३८॥ नाम्ना त्रिपृष्ठः प्रथमो, दाशार्हाणां भविष्यति । चक्रवती विदेहेषु, प्रियमित्राभिधश्च यत् ॥३८१॥ न तद् वन्दे न चेदं ते, पारिवाज्यं न जन्म च । किन्तु वन्दे चतुर्विंशो, यत् त्वमर्हन् भविष्यति॥३८२॥ इति बुवाणः शिरसि, बद्धाञ्जलिपुटस्ततः । तं त्रिः प्रदक्षिणीकृत्य, ववन्दे भरतेश्वरः॥ ३८३॥
[त्रिभिर्विशेषकम् ] अथ नत्वा जगन्नाथं, जगाम जगतीपतिः । अयोध्या नगरी नागराजो भोगवतीमिव ॥ ३८४ ॥ __ मरीचिस्तद्राि दृप्यंत्रिः करास्फोटपूर्वकम् । जातप्रमोदोऽभ्यधिक, वक्तुमेवं प्रचक्रमे ॥ ३८५ ॥ यद्याद्यो वासुदेवानां, विदेहेषु च चक्रभृत् । अन्त्योर्हन् भविताऽस्मीति, पूर्णमेतावता मम ॥३८६ ॥ पितामहोऽर्हतामाद्यश्चक्रिणां च पिता मम । दाशार्हाणामहं चेति, श्रेष्ठं कुलमहो! मम ॥ ३८७॥ त्रैलोक्यमेकतः सर्वमेकतश्च कुलं मम । एकतोऽन्यद् गजकुलं, यथैरावण एकतः ॥ ३८८ ॥ ग्रहेभ्य इव चण्डांशुरुडेभ्य इव चन्द्रमाः । सर्वेभ्योऽपि कुलेभ्यो मे, कुलमेकं प्रकृष्यते ॥ ३८९ ॥ १ पुत्रः। २ परिव्राजकत्वम् । ३ नागपुरीम् । ४ चरमतीर्थकरः श्रीमहावीरः। ५ नक्षत्रेभ्यः ।
मरीचेर्गवः।
SHARABASEARSANSARSUSBASA
॥१६२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410