Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिषष्टि
शलाकापुरुषचरिते ॥१६०॥
सगे: ऋषभजिन| भरतचक्रिचरितम् ।
|चक्रवर्तिनः ।
मिथिलायां स्वर्णवर्णो, वप्रा-विजयभूमिः । दशवर्षसहस्रायुः, पञ्चदशधनूनतिः ॥३१८ ॥ समासहस्रद्वितयं, सार्द्धमेतस्य तु व्रतम् । मोक्षान्तरं मुनिनम्योर्वर्षलक्षाः षडेव हि ॥३१९ ॥ ___ *शिवा-समुद्रविजयात्मजः शौर्यपुरे शितिः । नेमिर्दशधनुस्तुङ्गः, समासहस्रजीवितः ॥३२०॥ शतानि सप्त वर्षाणां, प्रव्रज्यायाममुष्य तु । मुक्त्यन्तरे नमिनेम्योर्वर्षलक्षाणि पश्च तु ॥ ३२१॥
वामा-ऽश्वसेनभूः पाश्चों, वाराणस्यां विनीलरुक् । नवहस्तप्रमाणाङ्गः, शतवत्सरजीवितः॥३२२॥ वर्षाणां सप्ततिस्तस्य, व्रतेऽन्तरे तु वत्सराः । सहस्राणि त्र्यशीतिः सार्दानि सप्तशतानि च ॥ ३२३ ॥ ___ कुण्डग्रामे महावीरः, सिद्धार्थ-त्रिशलासुतः । स्वर्णाभः सप्तहस्ताङ्गो, द्वासप्तत्यब्दजीवितः ॥३२४॥ द्वाचत्वारिंशदब्दानि, प्रव्रज्यायाममुष्य च । पार्श्ववीरान्तरालं तु, सार्द्ध वर्षशतद्वयम् ॥ ३२५॥
काश्यपाश्चक्रिणः स्वर्णवर्णा अष्टेषु मोक्षगाः। त्वं मयीवाऽजिते तत्राऽयोध्यायां सगरः खलु ॥३२६॥ तुक सुमित्र-यशोमत्योः, सार्द्धधन्वचतुःशतः । द्वासप्तत्या पूर्वलक्षैः, स तु प्रमितजीवितः ॥ ३२७॥ श्रावस्त्यां मघवा भद्रा-समुद्रविजयात्मजः । पञ्चाब्दलक्षायुः सार्द्धद्विचत्वारिंशधन्वकः ॥ ३२८॥ सनत्कुमारोऽब्दलक्षत्रयायुर्हस्तिनापुरे । प्राग्मानादेकधन्वोनः, सहदेव्यश्वसेनभूः ॥ ३२९॥ धर्मशान्त्यन्तरे चैतौ, तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररश्चैतेर्हन्तश्चक्रभृतोऽपि च ॥ ३३०॥ तारा-कृतवीर्यसुतः, सुभूमो हस्तिनापुरे । षष्टिवर्षसहस्रायुरष्टाविंशिधनून्नतिः॥ ३३१ ॥
* इमौ द्वौ ३२०, ३२१ तमौ श्लोकौ खं पुस्तके नोपलभ्यते ॥ १ श्यामवर्णः । । वर्षाणि खंता ॥ व्रतेऽगादन्तरे पुनः हासं २, आ, दीक्षायामन्तरे पुनः सं ॥ २ काश्यपगोत्रिणः । ३ पुत्रः ।
॥१६॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410