Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथम पर्व
पष्टः
त्रिषष्टि
शलाकापुरुषचरिते ॥१५९॥
सर्ग: ऋषभजिनभरतचक्रिचरितम् ।
तीर्थकृतः।
द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ॥ २८६॥ ___ कौशाम्ब्यां धर-सुसीमामनुः पद्मप्रभोऽरुणः। त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धधन्वशतद्वयः ॥२८॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥ २८८॥ __ वाराणस्यां तु प्रतिष्ठ-पृथ्वीमनुः सुवर्णरुक् । सुपाश्चों विंशतिपूर्वलक्षायुर्द्विधनुःशतः ॥ २८९ ॥ विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीनां, सहस्राणि नवाऽन्तरम् ॥ २९० ॥
चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुष्कः, शुभ्रः सार्धधनुःशतः ॥२९शा चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, शतानि नव चाऽन्तरम् ॥ २९२ ॥ ___ काकन्द्यां सुग्रीव-रामातनयः सुविधिः सितः। पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ॥२९३॥ अष्टाविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, नवतिः पुनरन्तरम् ॥ २९४ ॥ ___ शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्वलक्षायुर्धनुर्नवतिमुच्छ्रितः॥ २९५ ॥ अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिनाथोपमानां कोटयो नव ॥ २९६ ॥
सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु जिनोऽशीतिशरासनसमुन्नतिः॥२९७॥ वर्षाणां चतुरशीत्या, लक्षैः प्रमितजीवितः । अमुष्य तु व्रते वर्षलक्षाणामेकविंशतिः॥ २९८॥ पविशत्याऽब्दसहस्रैः, षषष्ट्या वर्षलक्षकैः । तथाऽर्णवशतेनोनाऽर्णवकोटिर्जिनान्तरम् ॥ २९९ ॥
चम्पापुयों वासुपूज्यो, वसुपूज्य-जयात्मजः। द्वासप्तत्यब्दलक्षायुर्धनुःसप्ततिमुन्नतः॥३०॥ रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् ।। ३०१॥
॥१५९॥
Jain Education Internation
For Private & Personal use only
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410