Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भगवन्तं प्रति भरतस्य पृच्छाः ।
तीर्थकृतः।
आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ २७२ ॥ देशनाविरतौ नत्वा, स्वामिनं भरतेश्वरः। रोमाञ्चितवपुर्वद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ २७३॥
नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मचक्रिणश्चक्रिणः कति ? ।। २७४ ॥ तेषां च नगरं गोत्रं, पितरावभिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्रभो॥२७५ ॥
अथाऽचचक्षे भगवान् , भरते भाविनोऽपरे । त्रयोविंशतिरहन्त, एकादश च चक्रिणः॥ २७६ ॥ जिनौ च विंशद्वाविंशी, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ॥ २७७॥
अयोध्यायां जितशत्रु-विजयातनयोऽजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ॥ २७८ ॥ अर्द्धपश्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ॥ २७९ ॥ तथा मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीना, लक्षाः पश्चाशदन्तरम् ॥ २८० ॥
श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्यः ॥२८१॥ चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, लक्षाणि त्रिंशदन्तरम् ।। २८२॥
विनीतापुर्या संवर-सिद्धार्थाजोभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः ॥ २८३॥ स्वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीनां, दशलक्षाणि चाऽन्तरम् ॥ २८४ ॥
तत्पुर्या सुमतिर्मेघ-मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुविधनुःशतः ॥ २८५॥
. सर्वभाषानुगामिन्या। २ तीर्थकराः। ३ नाम । ४ सुवर्णकान्तिः। ५ शरीरम् । * चत्वरिंशत्पूर्वलक्षायुधनुत्रिशतीमितः सं २॥ .
Jain Education International
For Private & Personal use only
Loading... Page Navigation 1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410