Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
काम्पिल्ये च कृतवर्म-श्यामाभूर्विमलो जिनः । पष्टिवत्सरलक्षायुः, पष्टिधन्वा सुवर्णरुक् ॥३०२॥ अमुष्य च पञ्चदश वर्षलक्षाणि तु व्रतम् । वासुपूज्यान्ततन्मोक्षान्तरे च त्रिंशदर्णवाः ॥३०३॥
अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णरुक् ।अनन्तस्त्रिंशल्लक्षाब्दायुः पञ्चाशद्धनून्नतिः॥३०४॥ सार्दानि वर्षलक्षाणि, सप्त तस्य पुनर्वतम् । विमलमोक्षतन्मोक्षान्तरे च नव सागराः ॥ ३०५॥
धर्मो रत्नपुरे भानु-सुव्रताभूः सुवर्णरुक् । दशाब्दलक्षायुः पञ्चचत्वारिंशद्धनूनतिः ॥ ३०६॥ पर्यायस्तस्य वर्षाणां, सार्द्ध लक्षद्वयं खलु । अनन्तमोक्षतन्मोक्षान्तरेऽर्णवचतुष्टयम् ॥ ३०७॥
पुरे गजपुरे शान्तिर्विश्वसेना-चिरासुतः । स्वर्णवर्णोऽब्दलक्षायुश्चत्वारिंशद्धनूनतिः॥३०८॥ पञ्चविंशतिरब्दानां, सहस्राण्यस्य तु व्रते । अब्धित्रयं पल्यचतुर्भागत्रिकोनमन्तरम् ॥ ३०९ ॥ ___ कुन्थुर्गजपुरे स्वर्णवर्णः सूर-श्रियोः सुतः । पञ्चनवत्यब्दसहस्रायुः पल्यार्द्धकान्तरः ॥ ३१०॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पर्यायेऽस्य तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसप्तशतानि च ॥ ३११॥ __ स्वर्णाभोऽरो गजपुरे, देवी-सुदर्शनात्मजः । चतुरशीत्यब्दसहस्रायुस्त्रिंशद्धनून्नतिः ॥ ३१२ ॥ पर्याये तस्य वर्षाणां, सहस्राण्येकविंशतिः। पल्यतुर्याशोऽब्दकोटिसहस्रोनो जिनान्तरम् ॥ ३१३॥ __ मल्लिनाथो मिथिलायां, कुम्भ-प्रभावतीप्रसूः । पञ्चविंशतिधन्वाऽब्दकोटीसहस्रकान्तरः ॥३१४॥ नीलोऽस्याऽब्दसहस्राणि, पञ्चपञ्चाशदायुपि । एकवर्षशतोनानि, पूर्वोक्ताब्दानि तु व्रते ॥३१५॥
पद्मा-सुमित्रसू राजगृहे कृष्णस्तु सुव्रतः। त्रिंशद्वर्षसहस्रायुधनुर्विंशतिमुन्नतः ॥ ३१६ ॥ सप्तवर्षसहस्राणि, सार्द्धान्येतस्य तु व्रतम् । चतुष्पश्चाशदब्दानां, लक्षाणि तु जिनान्तरम् ॥३१७ ॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410