Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 379
________________ Jain Education International अरमल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां पुनः पद्मो, ज्वाला - पद्मोत्तरात्मजः ॥३३२॥ त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुच्छ्रितः । काम्पिल्ये हरिषेणस्तु, मेरा महाहरिप्रसूः ॥ ३३३ ॥ दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः । मुनिर्नम्योर्विहरतोर्द्वावप्येतौ भविष्यतः ॥ ३३४ ॥ वप्रा विजयभू राजगृहे द्वादशकार्मुकः । जयख्यब्दसहस्रायुर्नमिनेमिजिनान्तरे ॥ ३३५ ॥ काम्पिल्ये ब्रह्मदत्तस्तु, चुलनी ब्रह्मनन्दनः । सप्तवर्षशतायुष्कः, सप्तधन्वसमुन्नतिः ॥ ३३६ ॥ श्री नेमिनाथ श्री पार्श्वनाथतीर्थान्तरे त्वसौ । रौद्रध्यानपरो गामी, सप्तमीं नरकावनीम् ॥ ३३७ ॥ तत्र प्रभुपृष्टोऽपीत्याख्यच्चत्र्यर्द्धविक्रमाः । त्रिखण्डावनिभोक्तारो, वासुदेवा नवाऽसिताः ॥ ३३८ ॥ अष्टमः काश्यपकुलस्तेषु शेषास्तु गौतमाः । सापत्ना भ्रातरस्तेषां बलदेवाः सिता नव ॥ ३३९ ॥ त्रिपृष्टः केशवस्तत्र, नगरे पोतनाह्वये । प्रजापति-मृगावत्योः, सुतोऽशीतिधनून्नतिः ॥ ३४० ॥ महीं विहरमाणे तु, श्रेयांसजिनपुङ्गवे । चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गमी ॥ ३४९ ॥ द्वारवत्यां द्विपृष्ठस्तु, धनुःसप्ततिमुन्नतः । भुवं विहरमाणे तु, वासुपूज्यजिनेश्वरे ॥ ३४२ ॥ द्वासप्ततिवर्ष लक्षायुः पद्मा ब्रह्मनन्दनः । गमिष्यति च सोऽवश्यं, षष्ठीं नरकमेदिनीम् ॥ ३४३ ॥ द्वारवत्यां स्वयम्भूस्तु, धनुःषष्टिसमुन्नतः । षष्टिवत्सरलक्षायुर्विमलस्वामिवन्दकः ॥ ३४४ ॥ भद्रराजस्य पृथिवीदेव्याचैष तनूरुहः । गमिष्यति च पूर्णायुः, षष्ठिकां नरकावनीम् ॥ ३४५ ॥ १] पद्माख्यश्वी । * नम्यन्तराले तु द्वा° खंता ॥ २ जयाख्यश्चकी । ३ कृष्णवर्णाः । ४ गौतमकुलाः । + इत आरभ्य ३४८ पर्यन्तं श्लोकाः संपुस्तके पतिताः ॥ For Private & Personal Use Only वासुदेवाः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410