Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भरतेनार्य
वेदानां निर्माणम् ।
अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षां चक्रिरे नवाः । श्रावकाः काँकिणीरत्नेनाऽऽलम्ब्यन्त तथैव हि ॥२४२॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठन्निदम् । जितो भवानित्याधुच्चैाहनास्ते ततोऽभवन् ॥ २४३॥ निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद् , विरक्तैर्बतमाददे ॥ २४४ ॥ परीषहासहैः कैश्चिच्छावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ॥ २४५॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात् , केन केन न पूज्यते ॥२४६॥ अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान् वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ॥२४७॥ क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ २४८॥ इयं भरतराज्येऽभूत् , स्थितिर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ॥ २४९॥ महायशाप्रभृतयः, केचिद् रौप्याणि चक्रिरे। पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ॥२५०॥[युग्मम्] भरतादादित्ययशास्ततश्चाऽऽसीन्महायशाः। अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ॥२५१॥ कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥२५२ ॥ एभिभूपैश्च बुभुजे, भरताधं समन्ततः । भगवन्मुकुटः शक्रोपनीतो मूय॑धारि च ॥ २५३ ॥ शेषैर्महाप्रमाणत्वान्न स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरः ॥ २५४॥ जज्ञे साधुविच्छेदोऽन्तनवमदशमाहेतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ॥ २५५ ॥ वेदाश्चाऽर्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥२५६ ॥
* काकणी खंता ॥ + काकणी खंता काकणी खंता ॥ काकण्य खंता ॥ सुविधिशीतलाख्यतीर्थकृतोः । इतः खंता ॥
अनार्यवेदाः।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410