Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 372
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१५७॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ २२७॥ कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ॥ २२८॥ भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते मीस्तस्मान्मा हन मा हन ॥ २२९॥ प्रतिपद्य तथा ते तु, भुञ्जते स तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः॥२३०॥ रतिमन्नो देव इव, नृदेवोऽपि प्रमद्वरः। तच्छब्दाकर्णनादेव, किश्चिदेवं व्यचिन्तयत् ॥ २३१॥ जितोऽसि केन? हुं ज्ञातं, कषायैर्वधते च भीः । कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः॥२३२॥ एवं च सारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ॥ २३३ ॥ औदासीन्यमहो! धर्मेऽप्यहो! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ॥२३४॥ अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ॥२३५॥ भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ॥२३६॥ सूदाध्यक्षस्थाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वापि, भूयस्त्वानोपलक्ष्यते ॥ २३७ ॥ आदिशद् भरतः सूदान् , श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ।। २३८ ॥ को भवान् ? श्रावकोऽहं, तद्वतानि कति? शंस नः। तानि न श्रावकाणां स्युः, किन्त्वस्माकं सदापि हि ॥२३९॥ अणुव्रतानि पश्चाऽथ, सप्त शिक्षावतानि च । एवं परीक्षानियंढास्तैस्तेऽदर्यन्त भूपतेः ॥२४॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ॥ २४१॥ १ पाचकाधिपतिभिः । २ तिर्यकक्षावलम्बी हारभेदः । * काकण्या खंता ॥ भरतेन श्रावकेभ्यो भोजनदानम् ॥१५७॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410