Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
इन्द्रस्य रूपम्।
गुणोत्तरेभ्यो दातव्यमिति शक्रेण भाषिते । एवं स दध्यौ मम के, विना साधून गुणोत्तराः ॥२१२॥ आ:! ज्ञातमथवा सन्ति, विरताविरताः खलु । गुणोत्तराः श्रावका मे, तेभ्यो देयमिदं मया ॥२१३॥ __ कर्त्तव्यं तच्च निश्चित्य, चक्रवर्ती दिवस्पतेः । भाखदाकृतिक रूपं, दृष्ट्वा पप्रच्छ विस्मितः॥२१४ ॥ किमीशेन रूपेण, यूयं स्वर्गेऽपि तिष्ठथ ? । रूपान्तरेण यदि वा, कामरूपा हि नाकिनः ॥ २१५॥ देवराजोऽब्रवीद् राजन्निदं रूपं न तत्र नः । यत् तत्र रूपं तन्मत्यैनं द्रष्टुमपि पार्यते ॥ २१६ ॥ भरतः पुनरप्यूचे, सहस्राक्ष ! ममोच्चकैः । यौष्माकीणस्य रूपस्य, दर्शने तस्य कौतुकम् ॥ २१७॥ तस्या दिव्याकृतेः स्वस्था, दर्शनेन दिवस्पते । परिप्रीणय मे चक्षुश्चकोरमिव चन्द्रमाः ॥ २१८ ॥ त्वं पुमानुत्तमोऽसीति, मा तेऽभूत् प्रणयो मुधा । तदेकमङ्गावयवं, दर्शयिष्यामि भूपते ! ॥ २१९॥ इत्युदीर्य शुनासीरो, योग्यालङ्कारशालिनीम् । स्वाङ्गली दर्शयामास, जगद्वेश्मैकदीपिकाम् ॥ २२०॥ पार्वणेन्दुमिवोदन्वान् , विकसद्भासुरद्युतिम् । तां महेन्द्राङ्गुली दृष्ट्वा, मुमुदे मेदिनीपतिः ॥ २२१ ।। भगवन्तं प्रणम्याऽथ, राजानमनुमान्य च । शतमन्युस्तिरोऽधत्त, सन्ध्याभ्रमिव तत्क्षणात् ॥ २२२ ॥
खामिनं प्रणिपत्याऽथ, चक्रवर्त्यपि शक्रवत् । कृत्यानि चिन्तयंश्चित्ते, विनीतां नगरीं ययौ ॥२२३॥ शक्राङ्गुली न्यस्य रानी, भरतोष्टाह्निका व्यधात । भक्तौ स्नेहेऽपि च सतां, कर्त्तव्यं तुल्यमेव हि ॥२२४॥ इन्द्रस्तम्भं समुत्तभ्य, ततः प्रभृति सर्वतः । इन्द्रोत्सवः समारब्धो, लोकैरद्यापि वर्तते ॥ २२५॥ विजहार ततोऽन्यत्राअष्टापदाद् भगवानपि । भव्याजबोधकृत क्षेत्रात्, क्षेत्रान्तरमिवार्यमा ॥२२६ ॥ प्रार्थना। २ इन्द्रः।
त्रिषष्टि. २७
Jan Education Internationa
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410