Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
AMGAOSANSAROSAMASSAMSKSE
इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ॥ १८३ ॥ प्राकारे च द्वितीयस्मिंस्तियञ्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ॥१८४ ॥ तार्तीयीके पुनर्वग्रे, नृपादीनामुपेयुपाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानपरम्पराः ॥१८५ ॥
सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनस्वामी, विदधे धर्मदेशनाम् ॥ १८६॥ आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृताभिषेककल्याणा, इव ध्यानस्थिता इव ॥ १८७ ॥ प्राप्ता इवाऽहमिन्द्रत्वं, परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात, तस्थुस्तियनरामराः॥१८८॥ [युग्मम् |
देशनान्ते च भरतो, भ्रातृनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ १८९॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया । अनारतमतृप्तेन, भमकामयिनेव हा॥१९॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मी भोगफलामिमाम् । तच्च मे भमनि हुतमिव मूढस्य निष्फलम् ॥१९॥ काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं, भोगान् भुजे विना ह्यमन् ॥१९२॥ दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरनमी भिक्षा, मासापणिका इव ॥ १९३ ॥ एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातून निमन्त्रयामास, भोगाय रचिताञ्जलिः ॥ १९४॥
प्रभुरप्यादिदेशैवमृज्वाशय! विशाम्पते । भ्रातरस्ते महासत्त्वाः, प्रतिज्ञातमहाव्रताः ॥ १९५॥ संसारासारतां ज्ञात्वा, परितस्त्यक्तपूर्विणः। न खलु प्रतिगृह्णन्ति,भोगान् भूयोऽपि वान्तवत्।।१९६॥[युग्मम्] *."हन्मदाः सं २॥ १ वाहनपरम्पराः। २ मनःसन्तापसहितः । ३ भस्मकरोगिणेव । ४ मासोपवासिनो मुनयः ।।
Jain Education in
For Private & Personal use only
DAN
www.jainelibrary.org
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410