Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
A
जगर्जुर्दन्तिनस्तारं, वाजिनश्च जिहेपिरे । त्वरयन्त इव स्वामियानाय स्वाधिरोहकान् ॥१५५ ॥ रथिनः पत्तयश्चेयुः, प्रमोदपुलकाश्चिताः । राजाज्ञा भगवद्याने, सुगन्धिस्वर्णसन्निभा ॥१५६ ॥ सैन्यान्याष्टापदायोध्यं, न मान्ति स स्थितान्यपि । महानिर्झरिणीपूरपयांसीवाऽऽतटीद्वयम् ॥१५७॥ श्वेतातपत्रैर्मायूरातपत्रैश्च वियत्यपि । मन्दाकिनीयमुनयोर्वेणीसङ्ग इवाऽभवत् ॥ १५८ ॥ सादिवीरकराग्रस्थाः, स्फुरद्भिः स्वैर्मरीचिभिः । कुन्ता अपि समुत्क्षिप्तकुन्ता इव चकाशिरे ॥१५९ ॥ गर्जद्भिर्जितं हर्षादारूढैवीरकुञ्जरैः । कुञ्जरा अपि चोढकुञ्जरा इव रेजिरे ॥ १६० ॥ चक्रितोऽप्यौत्सुकायन्त, सैन्या नन्तुं जगत्पतिम् । असिकोशस्तदसितो, नितान्तं निशितोऽभवत् ॥१६१॥ सर्वतो मिलिताः सैन्या, महाकोलाहलेन ते । द्वाःस्थेनेव न्यवेद्यन्त, मध्यस्थस्यापि चक्रिणः ॥ १६२॥ ___ अथाऽङ्गशौचं स्नानेन, प्रचक्रे चक्रवर्त्यपि । रागद्वेषजयेनेव, मनःशौचं मुनीश्वरः ॥ १६३ ॥ भरतेशः कृतप्रायश्चित्तकौतुकमङ्गलः । पर्यधाद् वस्त्रनेपथ्यान्युजलानि खवृत्तवत् ॥ १६४ ॥ मूर्ध्नि श्वेतातपत्रेण, चामराम्यां च पार्श्वयोः । भ्राजमानः स शुभ्राभ्यां, ययौ वेश्मान्तवेदिकाम् ॥१६५॥ पूर्वाचलमिवाऽऽदित्यस्तामारुह्य महीपतिः । नभोमध्यमिवोदग्रमारुरोह महागजम् ॥ १६६ ॥ भेरीशङ्खानकप्रायवर्यतूर्यमहारवैः । अनुवानोऽम्बराभोगं, यन्त्रधाराजलैरिव ॥ १६७ ॥ दिशो गजैर्निरन्धानोऽम्बुदैरिव मदाम्बुभिः । तुरङ्गैश्छादयन्नुर्वी, तरङ्गैरिव सागरः ॥ १६८॥ १ महानदीपू पयांसीव । २ उत्सुका अभवन् । ३ तीक्ष्णः ।
UGREECRECORRECORROSCOMSMS
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410