SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ AMGAOSANSAROSAMASSAMSKSE इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ॥ १८३ ॥ प्राकारे च द्वितीयस्मिंस्तियञ्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ॥१८४ ॥ तार्तीयीके पुनर्वग्रे, नृपादीनामुपेयुपाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानपरम्पराः ॥१८५ ॥ सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनस्वामी, विदधे धर्मदेशनाम् ॥ १८६॥ आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृताभिषेककल्याणा, इव ध्यानस्थिता इव ॥ १८७ ॥ प्राप्ता इवाऽहमिन्द्रत्वं, परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात, तस्थुस्तियनरामराः॥१८८॥ [युग्मम् | देशनान्ते च भरतो, भ्रातृनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ १८९॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया । अनारतमतृप्तेन, भमकामयिनेव हा॥१९॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मी भोगफलामिमाम् । तच्च मे भमनि हुतमिव मूढस्य निष्फलम् ॥१९॥ काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं, भोगान् भुजे विना ह्यमन् ॥१९२॥ दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरनमी भिक्षा, मासापणिका इव ॥ १९३ ॥ एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातून निमन्त्रयामास, भोगाय रचिताञ्जलिः ॥ १९४॥ प्रभुरप्यादिदेशैवमृज्वाशय! विशाम्पते । भ्रातरस्ते महासत्त्वाः, प्रतिज्ञातमहाव्रताः ॥ १९५॥ संसारासारतां ज्ञात्वा, परितस्त्यक्तपूर्विणः। न खलु प्रतिगृह्णन्ति,भोगान् भूयोऽपि वान्तवत्।।१९६॥[युग्मम्] *."हन्मदाः सं २॥ १ वाहनपरम्पराः। २ मनःसन्तापसहितः । ३ भस्मकरोगिणेव । ४ मासोपवासिनो मुनयः ।। Jain Education in For Private & Personal use only DAN www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy