Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाका
प्रथमं पर्व पञ्चमः सर्गः
पुरुषचरिते
॥१४२॥
ऋषभजिनभरतचक्रिचरितम् ।
शास्त्रीयवाग्युद्धेऽप्येवं, वादिना प्रतिवाद्यसौ । वीरेण बाहुबलिना, विजिग्ये भरतेश्वरः॥ ६०७ ॥
अथ तो बाहुयुद्धार्थमुभावपि हि बान्धवौ । बवन्धतुः परिकरं, बद्धकक्षद्विपोपमौ ॥ ६०८॥ अथ बाहुबलेगर्जनुढेल इव वारिधिः । स्वर्णदण्डधरः साऽऽह, प्रतीहाराग्रणीरिति ॥ ६०९॥ वज्रकीलानिव शैलानवष्टभ्य विशेषतः । आस्थाय थाम चाऽशेषमपि पृथ्वि! स्थिरीभव ॥ ६१० ॥ परितः पूरयित्वा च, कुम्भयित्वा च मारुतम् । हे नागराज! नगवद् , दृढीभूय धरां धर ॥ ६११ ॥ लुठित्वा वारिधेः पङ्के, विहायाऽग्रेतनं श्रमम् । पुनर्नवीभूय महाक्रोड ! क्रोडीकुरु क्षितिम् ॥ ६१२॥ वज्रमानिन् ! निजाङ्गानि, सङ्कोच्य परितोऽपि हि । स्वपृष्ठं कर्मठप्रष्ठ!, द्रढयित्वा महीं वह ॥ ६१३ ॥ प्रमादतो मदतो वा, निद्रां मा धत्त पूर्ववत् । सर्वात्मना सावधाना, वसुधां धत्त दिग्गजाः!॥ ६१४ ॥ वज्रसारो बाहुबलिर्वज्रसारेण चक्रिणा । यदसौ मल्लयुद्धेन, योद्धमुत्तिष्ठतेऽधुना ।। ६१५॥ __ महामल्लौ तडिद्दण्डताडिताद्रिरवोपमम् । विदधानौ करास्फोटमाह्वासातां मिथोऽथ तौ ॥ ६१६॥ तौ सलीलपदन्यासं, चेलतुश्चलकुण्डलौ । सार्केन्दू धातकीखण्डात्, क्षुद्रमेरू इवाऽऽगतौ ॥ ६१७ ॥ तावन्योऽन्यं कराभ्यां चाऽऽस्फालयामासतुः करौ। नदन्तौ बलवद्दन्तौ, दन्ताभ्यां दन्तिनाविव ।। ६१८॥ अयुज्येतां क्षणेनापि, व्ययुज्येतां क्षणेन च । तावासन्नमहावृक्षाविवोद्दण्डानिलेरितौ ॥ ६१९ ॥ उत्पेततः क्षणेनापि, क्षणेनापि निपेततुः । वीरौ तौ दुर्दिनोन्मत्तमहाम्भोधितरङ्गवत् ॥ ६२०॥ अथ स्नेहादिवाऽमर्षाद् , धावित्वा तावुभावपि । अङ्गेनाऽङ्गं पीडयन्ती, सखजाते महाभुजौ ॥ ६२१ ॥ १ बलम् । २ स्तम्भयित्वा । ३ हे महावराह । ४ मध्येकुरु। ५ हे कूर्मश्रेष्ठ!। ६ आलिङ्गितवन्तौ ।
भरत-बाहुबलियुद्धम।
|॥१४२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410