Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 360
________________ 1 त्रिषष्टिशलाकापुरुषचरिते 2-61- प्रथमं पर्व षष्ठः । सर्ग: ऋषभजिनभरतचक्रि| चरितम् । ॥१५॥ 2.SAMSUN अत्यन्तवृष्टयनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनागदेनेव, जगतोऽप्यपसारयन् ॥ ५७॥ स्वान्यचक्रभवेनाऽन्तःशल्येनेवाऽपगच्छता । सद्यः प्रीतर्जनपदैः, क्रियमाणागमोत्सवः॥५८॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं जनैः॥ ५९॥ भामण्डलं दधानश्च, जितमार्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ॥ ६॥ चक्रवर्तीव चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ ६१॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ ६२॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणाहकल्याण इव निर्भरम् ॥ ६३ ।। नभःस्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ ६४ ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्वुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् ।। ६५॥ भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ॥ ६६ ॥ *उपास्यमानो युगपद्, ऋतुभिनिखिलैरपि । कर्तुं प्रायश्चित्तमिवाऽनङ्गेसाहाय्यपाप्मनः ॥ ६७॥ मार्गावनीरुहैरुच्चैरान्नमितमूर्द्धभिः । अपसंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ ६८ ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ ६९॥ न शुभं खामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लङ्घचमानाग्रवर्त्मकः ॥७॥ १ औषधेन । २ स्वचक्रपरचक्रभवेन । ३ केवल ज्ञानम् । ४ कमलेषु। * इमौ ६७-६८ तमौ श्लोकी खं पुस्तके न विद्यते । ५ कामसाहाय्यपापस्य । ६ मार्गबृक्षः। ७ निश्चेष्टः । ८ स्वाभिप्रतिकूलानाम् । ऋषभजिनातिशयाः। ॥१५१॥ GA Jan Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410