Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
अष्टापदः।
जघन्यतः कोटिसक्यै, राजमानः सुरासुरैः । यातायातपरैर्वेलातरङ्गैरिय सागरः ॥ ७१ ॥ भक्तिप्रभाववशतः, सप्रमेण दिवापि हि । इन्दुनेव नभःस्थेनाऽऽतपत्रेण विराजितः॥७२॥ इन्दोर्मरीचिसर्वस्वकोशैरिव पृथकृतैः । गङ्गातरङ्गधवलैर्वीज्यमानश्च चामरैः ॥ ७३ ॥ तपसा दीप्यमानश्च, सौम्यैश्च श्रमणोत्तमैः । लक्षशः परिकरितः, उडुनाथ इवोडुभिः ॥ ७४ ॥ प्रतिग्राम प्रतिपुरं, भव्यजन्तून प्रबोधयन् । प्रतिसिन्धु प्रतिसरः, पङ्कजानीव भास्करः॥७५॥ ग्रामाकरपुरद्रोणमुखकर्बटपत्तनैः । मडम्बाश्रमखेटाद्यैश्चापूर्णा विहरन् महीम् ॥ ७६ ॥ विश्वोपकारप्रवणो, भगवानृषभध्वजः । अपरेधुः क्रमात् प्रापदष्टापदमहाचलम् ॥ ७७ ॥
[पञ्चविंशत्या कुलकम् ] शारदानामिवाऽभ्राणां, राशिमकत्र कल्पितम् । संस्त्यानीभूतदुग्धाब्धिवेलाकूटमिवाऽऽहृतम् ॥ ७८॥ जन्माभिषेकविकृतपुरन्दरककुद्मताम् । एकं ककुंअन्तमिवोत्तुङ्गशृङ्गमिव स्थितम् ॥ ७९ ॥ नन्दीश्वरमहाद्वीपवर्तिपुष्करिणीसदाम् । मध्याद् दधिमुखाद्रीणामिवेकतममागतम् ॥ ८॥ जम्बूद्वीपारविन्दस्य, बिसखण्डमिवोद्धृतम् । उद्भटं मुकुटमिव, श्वेतरत्नमयं भुवः ॥ ८१॥ नैर्मल्याद् भासुरत्वाच, नित्यमेव धुसद्गुणैः । स्नप्यमानमिवाऽम्भोभिZज्यमानमिवाऽशुकैः ॥ ८२ ॥ स्फटिकोपलकूलेषु, निर्मलेप्वङ्गनाजनैः । उपलक्ष्यसरिद्वारिं, वातोद्धृताजरेणुना ॥ ८३ ॥
१ साधूत्तमैः । २ चन्द्रः। ३ नक्षत्रैः। ४ घनीभूतक्षीरसमुद्रवेलाकूटम् । ५ वृषभम् । ६ नालखण्डम् ।। 4. देवसङ्घः। ८ उपलक्षणीयनदीजलम् ।
Jain Education Inte20
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410