Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 359
________________ ऋषभजिनातिशयाः। शीतलं वातलायेव, छागायेव धनागमः । स धर्मः खामिगदितो, रुरुचे कपिलाय न ॥४२॥ [ युग्मम् ]| धर्मान्तरं तु शुश्रूषुः, क्षिपन् दृष्टिमितस्ततः । प्रेक्षाञ्चके मरीचिं स, खामिशिष्यविलक्षणम् ॥४३॥ मरीचिं स्वामितः सोऽगाद्, धर्मान्तरजिघृक्षया । महेभ्याट्टाद् दरिद्रादृमिव कायकबालकः ॥४४॥ धर्म तेनाऽनुयुक्तस्तु, मरीचिरिदमभ्यधात् । नेहाऽस्ति धर्मो धर्मार्थी, यदि तत् स्वामिनं श्रय ॥४५॥ ऋषभखामिनः पादाभ्यर्ण भूयो जगाम सः। पुनराकर्णयामास, धर्म तत्र तथैव तम् ॥ ४६॥ स्वकर्मपितायाऽस्मै, स्वामिधर्मोऽरुचन्न हि । चातकस्य वराकस्य, सम्पूर्णसरसाऽपि किम् ? ॥४७॥ मरीचिमाययौ भूयः, स इत्यूचे च किं तव । योऽपि सोऽपि न धर्मोऽस्ति, निधर्म किं व्रतं भवेत् ॥४८॥ मरीचिश्चिन्तयामासाऽनुरूपः कोऽप्ययं मम । अहो ! दैवादयं जज्ञे, योगः सदृशयोश्चिरात् ॥ ४९॥ सहायो निःसहायस्य, ममाऽस्त्विति विचिन्त्य सः । तत्रापि धर्मोऽस्त्यत्राऽपि, धर्मोऽस्त्येवमभाषत ॥५०॥ दुभाषितेन तेनेकेनाऽप्युपार्जयदुल्वणम् । अब्धिकोटीकोटिमानं, मरीचिर्भवमात्मनः ॥५१॥ अदीक्षयत् स कपिलं, स्वसहायं चकार च । परिव्राजकपाखण्डं, ततः प्रभृति चाऽभवत् ।। ५२॥ अथ साग्रं योजनानां, शतं लोकान् रुजां क्षयात् । अनुगृहंस्तापशान्त्या, प्रावृषेण्य इवाऽम्बुदः ॥५३॥ पतङ्गमूपकशुकमायेतेरप्रवृत्तितः । अनीतेवि भूपालः, सुखयन्नखिलाः प्रजाः॥५४॥ नैमित्तिकानां वैराणां, शाश्वतानां च सर्वतः । प्रशमात् प्रीणयन् जन्तून्, रविर्घान्तक्षयादिव ॥५५॥ व्यवहारप्रवृत्त्याऽग्रे, सर्वसौस्थ्यकृता यथा । आनन्दयन्नमार्या च, परितोऽपि प्रजास्तथा ॥५६॥ १ वातरोगिणे । २ मेपाय । ३ धनाढ्यापणात् । ४ पृष्टः । ५ पादसमीपम् । त्रिषष्टि. २६ Jain Education Internal For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410