________________
ऋषभजिनातिशयाः।
शीतलं वातलायेव, छागायेव धनागमः । स धर्मः खामिगदितो, रुरुचे कपिलाय न ॥४२॥ [ युग्मम् ]| धर्मान्तरं तु शुश्रूषुः, क्षिपन् दृष्टिमितस्ततः । प्रेक्षाञ्चके मरीचिं स, खामिशिष्यविलक्षणम् ॥४३॥ मरीचिं स्वामितः सोऽगाद्, धर्मान्तरजिघृक्षया । महेभ्याट्टाद् दरिद्रादृमिव कायकबालकः ॥४४॥ धर्म तेनाऽनुयुक्तस्तु, मरीचिरिदमभ्यधात् । नेहाऽस्ति धर्मो धर्मार्थी, यदि तत् स्वामिनं श्रय ॥४५॥ ऋषभखामिनः पादाभ्यर्ण भूयो जगाम सः। पुनराकर्णयामास, धर्म तत्र तथैव तम् ॥ ४६॥ स्वकर्मपितायाऽस्मै, स्वामिधर्मोऽरुचन्न हि । चातकस्य वराकस्य, सम्पूर्णसरसाऽपि किम् ? ॥४७॥ मरीचिमाययौ भूयः, स इत्यूचे च किं तव । योऽपि सोऽपि न धर्मोऽस्ति, निधर्म किं व्रतं भवेत् ॥४८॥ मरीचिश्चिन्तयामासाऽनुरूपः कोऽप्ययं मम । अहो ! दैवादयं जज्ञे, योगः सदृशयोश्चिरात् ॥ ४९॥ सहायो निःसहायस्य, ममाऽस्त्विति विचिन्त्य सः । तत्रापि धर्मोऽस्त्यत्राऽपि, धर्मोऽस्त्येवमभाषत ॥५०॥ दुभाषितेन तेनेकेनाऽप्युपार्जयदुल्वणम् । अब्धिकोटीकोटिमानं, मरीचिर्भवमात्मनः ॥५१॥ अदीक्षयत् स कपिलं, स्वसहायं चकार च । परिव्राजकपाखण्डं, ततः प्रभृति चाऽभवत् ।। ५२॥
अथ साग्रं योजनानां, शतं लोकान् रुजां क्षयात् । अनुगृहंस्तापशान्त्या, प्रावृषेण्य इवाऽम्बुदः ॥५३॥ पतङ्गमूपकशुकमायेतेरप्रवृत्तितः । अनीतेवि भूपालः, सुखयन्नखिलाः प्रजाः॥५४॥ नैमित्तिकानां वैराणां, शाश्वतानां च सर्वतः । प्रशमात् प्रीणयन् जन्तून्, रविर्घान्तक्षयादिव ॥५५॥ व्यवहारप्रवृत्त्याऽग्रे, सर्वसौस्थ्यकृता यथा । आनन्दयन्नमार्या च, परितोऽपि प्रजास्तथा ॥५६॥ १ वातरोगिणे । २ मेपाय । ३ धनाढ्यापणात् । ४ पृष्टः । ५ पादसमीपम् ।
त्रिषष्टि. २६ Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org.