________________
1
त्रिषष्टिशलाकापुरुषचरिते
2-61-
प्रथमं पर्व
षष्ठः । सर्ग: ऋषभजिनभरतचक्रि| चरितम् ।
॥१५॥
2.SAMSUN
अत्यन्तवृष्टयनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनागदेनेव, जगतोऽप्यपसारयन् ॥ ५७॥ स्वान्यचक्रभवेनाऽन्तःशल्येनेवाऽपगच्छता । सद्यः प्रीतर्जनपदैः, क्रियमाणागमोत्सवः॥५८॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं जनैः॥ ५९॥ भामण्डलं दधानश्च, जितमार्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ॥ ६॥ चक्रवर्तीव चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ ६१॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ ६२॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणाहकल्याण इव निर्भरम् ॥ ६३ ।। नभःस्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ ६४ ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्वुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् ।। ६५॥ भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ॥ ६६ ॥ *उपास्यमानो युगपद्, ऋतुभिनिखिलैरपि । कर्तुं प्रायश्चित्तमिवाऽनङ्गेसाहाय्यपाप्मनः ॥ ६७॥ मार्गावनीरुहैरुच्चैरान्नमितमूर्द्धभिः । अपसंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ ६८ ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ ६९॥ न शुभं खामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लङ्घचमानाग्रवर्त्मकः ॥७॥ १ औषधेन । २ स्वचक्रपरचक्रभवेन । ३ केवल ज्ञानम् । ४ कमलेषु। * इमौ ६७-६८ तमौ श्लोकी खं पुस्तके न विद्यते । ५ कामसाहाय्यपापस्य । ६ मार्गबृक्षः। ७ निश्चेष्टः । ८ स्वाभिप्रतिकूलानाम् ।
ऋषभजिनातिशयाः।
॥१५१॥
GA
Jan Education International
For Private & Personal use only
www.jainelibrary.org