SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अष्टापदः। जघन्यतः कोटिसक्यै, राजमानः सुरासुरैः । यातायातपरैर्वेलातरङ्गैरिय सागरः ॥ ७१ ॥ भक्तिप्रभाववशतः, सप्रमेण दिवापि हि । इन्दुनेव नभःस्थेनाऽऽतपत्रेण विराजितः॥७२॥ इन्दोर्मरीचिसर्वस्वकोशैरिव पृथकृतैः । गङ्गातरङ्गधवलैर्वीज्यमानश्च चामरैः ॥ ७३ ॥ तपसा दीप्यमानश्च, सौम्यैश्च श्रमणोत्तमैः । लक्षशः परिकरितः, उडुनाथ इवोडुभिः ॥ ७४ ॥ प्रतिग्राम प्रतिपुरं, भव्यजन्तून प्रबोधयन् । प्रतिसिन्धु प्रतिसरः, पङ्कजानीव भास्करः॥७५॥ ग्रामाकरपुरद्रोणमुखकर्बटपत्तनैः । मडम्बाश्रमखेटाद्यैश्चापूर्णा विहरन् महीम् ॥ ७६ ॥ विश्वोपकारप्रवणो, भगवानृषभध्वजः । अपरेधुः क्रमात् प्रापदष्टापदमहाचलम् ॥ ७७ ॥ [पञ्चविंशत्या कुलकम् ] शारदानामिवाऽभ्राणां, राशिमकत्र कल्पितम् । संस्त्यानीभूतदुग्धाब्धिवेलाकूटमिवाऽऽहृतम् ॥ ७८॥ जन्माभिषेकविकृतपुरन्दरककुद्मताम् । एकं ककुंअन्तमिवोत्तुङ्गशृङ्गमिव स्थितम् ॥ ७९ ॥ नन्दीश्वरमहाद्वीपवर्तिपुष्करिणीसदाम् । मध्याद् दधिमुखाद्रीणामिवेकतममागतम् ॥ ८॥ जम्बूद्वीपारविन्दस्य, बिसखण्डमिवोद्धृतम् । उद्भटं मुकुटमिव, श्वेतरत्नमयं भुवः ॥ ८१॥ नैर्मल्याद् भासुरत्वाच, नित्यमेव धुसद्गुणैः । स्नप्यमानमिवाऽम्भोभिZज्यमानमिवाऽशुकैः ॥ ८२ ॥ स्फटिकोपलकूलेषु, निर्मलेप्वङ्गनाजनैः । उपलक्ष्यसरिद्वारिं, वातोद्धृताजरेणुना ॥ ८३ ॥ १ साधूत्तमैः । २ चन्द्रः। ३ नक्षत्रैः। ४ घनीभूतक्षीरसमुद्रवेलाकूटम् । ५ वृषभम् । ६ नालखण्डम् ।। 4. देवसङ्घः। ८ उपलक्षणीयनदीजलम् । Jain Education Inte20 For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy